पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-
स्तैर्मल्लीमुकुलैरमीलि दहनक्लान्ते वनान्ते यतः ॥ ७१ ॥

कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं
निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः ।
सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा
पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः ॥ ७२ ॥

येन प्राप्तः सुरभितककुप्कंदरः कोऽप्युदारो
मन्दारोऽपि भ्रमररमणीदत्तरागः परागः ।
स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-
दस्सिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत् ॥ ७३ ॥

यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि
न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः ।
एतत्किं तु कथं सहेमहि महद्दुःखं यदत्रामुना
निःशङ्कं कलितः शशाङ्ककलिकापीयूषपानोत्सवः ॥ ७४ ॥

दृष्टाश्चम्पकसंपदो विचकिलश्रेणी गता गोचरं
प्राप्तं केतकधाम कैरववनं दृष्टं विमृष्टं च तत् ।
सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा
साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः ॥ ७५॥

बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः
कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्त्राङ्कुरः ।
तत्किंचिन्नयनाञ्जनं रतिपतिह्लादप्रदा सा गति-
स्तन्मुग्धं हसितं सदामृतरसं मुञ्चन्कुतः पञ्चमः ॥ ७६ ॥

मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं
मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः ।
स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः
कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः ॥ ७७ ॥