कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति
प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत् ।
तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं
कंदर्पकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥ ५३ ॥
कंदर्पैककृपाणवल्लरि वने कस्मादकस्मादियं
हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः ।
सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः
कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥ ५४ ॥
लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः
कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः ।
सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो
हन्त स्वान्तं मृगमदरसे पामरा नार्पयन्ति ॥ ५५ ॥
ऊढापि द्युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो
मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते ।
तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकषं
मुग्धे जाड्यनिधिं मुधा जलनिधिं यातासि चित्राः स्त्रियः ॥ ५६ ॥
नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं
कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः ।
पाने मज्जनकर्मनर्मणि तथा बाह्यैरलं वारिधे
कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः ॥ ५७ ॥
कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां
यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः ।
अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः
पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ॥ ५८ ॥
एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये
मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।
१. हे गङ्गे. २. शिवेन.