पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

एताः केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता
मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च ।
किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-
लीलालिङ्गनयोग्यमुग्रगरलग्रामः फणिग्रामणीः ॥ ३५ ॥

सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां
नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम् ।
वारंवारमुदारवारणरणव्यापारपारंगमो
दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः ॥ ३६ ॥

यत्केलिमन्थरमरालमरालबाल-
शेवालकोमलमलं विमलं मृणालैः ।
तत्पश्य शुष्यति सरः प्रसरत्तुषार-
रुद्धं विरुद्धविधिरेव विधिः किमन्यत् ॥ ३७ ॥

त्त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो
रोलम्बाकुलकम्प्रकुड्मलकुलक्लान्तो न कः केतकः ।
दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै-
र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः ॥ ३८ ॥

रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः
क्ऌप्तो बालैर्बहुलमुकुलैः केलिकर्णावतंसः ।
तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः
स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः ॥ ३९ ॥

वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-
मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम् ।
देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः
पश्योदेति समुद्र मुद्रिततमस्तोमस्तमीवल्लभः ॥ १० ॥


१. कुटिल. २. चद्रः,