पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले दोर्मूले कुचमण्डले च कुरुते रङ्गं कुरङ्गीदृशाम् ॥ २३ ॥

शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे- त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः । तत्किं मीलितमम्बुजैर्विदलितं किं दन्तिदन्ताङ्कुरै- र्भङ्गः किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः ॥ २४ ॥

झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः । एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः ॥ २५ ॥

येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः । तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति- र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्सयो न स्मयः ॥ २६ ॥

अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा- त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः। सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि- स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः ॥ २७ ॥

रोहत्सौरभविभ्रमाणि कमलासद्मानि पद्माकरे पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु का वा नुतिः । तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि

त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः ॥ २८ ॥


१. चन्द्रिकायां हस्तिदन्ता विदलन्तीति कविसंप्रदायः ‘कवाटिदन्तैर्विस्फोटश्चन्द्रकान्तैः सिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्ञ्युदयोन्मुखे' (८।३२४४)इति, 'महेभांस्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः' (८।३३९२) इति च राजतरङ्गिणी. कवाटिनो गजाः राज्ञि चन्द्रे. २. अगस्त्यः. ३. लक्ष्मीगृहाणि. ४. ब्रह्मा.