पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।


भगवत्पादश्रीशंकराचार्यकृतं

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् ।

टिप्पणसहितम् ।

 लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं
  नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति ।
 पायान्नः पाञ्चजन्यः स सकुलदितिजत्रासनैः पूरयन्स्वै-
  र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १ ॥

 स पाञ्चजन्यो नाम कम्बुराजः शङ्खश्रेष्ठो नोऽस्मान्पायात् । किंविशिष्टः । स्वैर्निर्ध्वानैर्नितरां ध्वानैरम्बरं नभः पूरयन् । नीरदा मेघास्तेषामोघोऽविच्छिन्नस्तोमस्तस्य ध्वनीनां गर्जितशब्दानां परिभवमभिभवं ददतीत्येवंविधैरित्यर्थः । मेघौघशङ्खयोर्युगपद्ध्वनतोः श्रुतिमतां शङ्खशब्द एव श्रुतिगोचरो न मेघौघशब्द इति मेघध्वनयः शङ्खध्वनिभिरभिभूयन्त इत्युच्यते । एतेन विशेषणेन निर्ध्वानैरित्यत्र निरुपसर्गद्योतितोऽतिशयः साधितः । कुलैः सह वर्तमानाः सकुलास्ते च ते दितिजा दैत्यास्तांस्त्रासयन्तीति तैः । यस्य कम्बुराजस्य रूपं लक्ष्मीभर्तुः श्रीकान्तस्य भुजाग्रे । वामोर्ध्वकर इति यावत् । कृता वसतिर्येन रूपेण तत् । सितं शुभ्रम् । विशालं महत् । उत्प्रेक्षते-नीलाद्रिरिन्द्रनीलमणिपर्वतस्तस्य यत्तुङ्गमुन्नतं शृङ्गं शिखरं तत्र स्थितं रजनीनाथस्य चन्द्रमसो बिम्बं मण्डलमिव । इन्द्रनीलगिरिरिव भगवन्मूर्तिस्तच्छृङ्गवत्करस्तत्रस्थचन्द्रमण्डलवच्छङ्ख इति योज्यम् ॥

 आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं
  ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वघाम्नां च धाम ।


१. बहवो ग्रन्थाः स्तोत्राणि च शंकराचार्यकृतित्वेन प्रसिद्धानि समुपलभ्यन्ते. तानि सर्वाण्यपि प्रधानशंकराचार्यकृतानीति न मन्तव्यम् , किं तु तत्सिंहासनाधिरूढैरधुनापि शंकराचार्यपदप्रसिद्धैतच्छिष्यप्रशिष्यैरपि बहूनि विरचितानीति ज्ञेयम्. एतद्विष्णुपादादिकेशान्तवर्णनस्तोत्रं तु प्रधानशंकराचार्यकृतमेव भाति, यतो माधवीयशंकरविजये चतुर्दशे सर्गे 'मुमूर्षुस्वजननीप्रेरणया शंकराचार्यैर्विष्णुस्वरूपवर्णनमकारि' इत्यादिका कथा वर्तते. सा च विष्णुस्तुतिरियमेवेति बहूनां मतम्. प्रधानशंकराचार्यास्तु ख्रिस्तसंवत्सरीयाष्टमशतकसमाप्तौ प्रादुर्बभूवुरित्यार्यविद्यासुधाकरधृतशंकरमन्दारसौरभादिवचनेभ्योऽवसीयते. षष्ठशतकोत्तरभागे सप्तमशतकपूर्वभागे वा शंकराचार्यस्थितिरासीदिति नव्यविदुषां मतम्. एतदेव युचियुक्तं प्रतीयते.