पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
करुणालहरिः ।


शरदिन्दुसहोदराननं दलदम्भोजपलाशलोचनम् ।
अरुणाधरकान्तिदन्तुरस्फुटदन्तांशुविकासिताम्बरम् ॥ ४२ ॥

दरपाण्डुरगण्डमण्डलप्रतिसर्पत्कमनीयकुण्डलम् ।
मणिमौक्तिकमञ्जुमञ्जरीमहनीयद्युतिरञ्जितश्रुति ॥ ४३ ॥

पृथुवर्तुलमौक्तिकावलीसुषमावेल्लितकान्तकंधरम् ।
हरिनीलगिरिद्युतिद्रुहा कमलामन्दिरवक्षसाञ्चितम् ॥ ४४ ॥

चरणाब्जनखावलम्बिनीं भुजागाकारभुजान्तरागताम् ।
निबिडाभ्रमिव क्षणप्रभां बृहदुत्फुल्लवनामलस्रजम् ॥ ४५ ॥

मणिकङ्कणकान्तिमांसलं दरफुल्लाम्बुजसुन्दरद्युति ।
पतितोद्धरणे दृढव्रतं कमनीयं करयोर्युगं दधत् ॥ ४६ ॥

वररत्नमयाङ्गुलीयकावलिशोभामिलिताङ्गुलीगणैः ।
मुहुराकुलितेन वेणुना वशयत्प्राणभृतां मनःश्रुतीः ॥ ४७ ॥

उदरद्युतिनिम्नगोच्छलल्लहरीरूपकरोमराजिकम् ।
पशुपालविलासिनीलसन्नयनाकर्षणनाभिनिम्नितम् ॥ ४८ ॥

कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् ।
उदयन्मणिनूपुरप्रभासरणिश्रेणिजटालजानुकम् ॥ ४९ ॥

अरिगीर्णगजेन्द्रगोपने दधता जाङ्घ्रिकतामलौकिकीम् ।
त्रिजगन्महनीयमूर्तिना वरजङ्घायुगलेन शोभितम् ॥ ५० ॥

कुलिशाङ्कुशकम्बुंसाम्बुजध्वजचक्रायभिरामलक्ष्मणा ।
अरुणारुणकोमलत्विषा कमनीयेन तलेन राजितम् ॥ ५१ ॥


१. 'स्फुरत्' इति पाठः. २. 'दन्तुरम्' इति पाठः, ३. 'प्रतिशंसत्' इति पाठः. ४. 'वर्तित' इति पाठः. ५. 'तुलसीनवमञ्जरीरजःपटलोल्लासितवक्षसा' इति पाठः, ६. 'चपलामनुशायिनीमिवोद्वहदुत्फुल्ल' इति पाठः. ७. 'भागलम्' इति पाठः. ८. 'धुरंधरम्' इति पाठः. ९. 'नवरत्नमयाङ्गुलीयकप्रतिभापिञ्जरिताङ्गुलीगणैः' इति पाठ:. १०. 'चारु चराचरान्तरम्' इति पाठः, ११. 'मिलन्नयनाकर्षणरश्मिभिर्नतम्' इति पाठः. १२. 'दधदूरु' इति पाठः. १३. 'अतिजीर्ण' इति पाठः, १४. 'वारिजध्वजाम्बुजचक्रा' इति पाठः.