पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
काव्यमाला ।


सुकृतप्रकृतौ जने त्वया कृतया किं कृपया कृपानिधे ।
यदि मादृशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१ ॥

अयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताड्यते ।
न कदापि च लालितस्त्वया किमु ताड्यो भगवन्कुकर्मभिः ॥ ३२ ॥

अहमेव हि दोषदूषितो भगवंस्त्वां समुपालभे मुघा
रमणीविरहज्वरज्वलन्नमृतांशुं कुमतिर्विनिन्दति ॥ ३३ ॥

करुणाकर दुर्दशाकुलं पतितालम्बन पापपञ्जरम् ।
अमृताम्बुनिधे महाज्वरं नहि जह्या जगदीश जातु माम् ॥ ३४ ॥

कटुजल्पनमल्पकस्य मे नहि ते कल्पयतु क्रुधं विभो ।
कुपितातुरबालभाषितं किमु गृह्णन्ति मनाङ्महाशयाः ॥ ३५ ॥

भुजगाहितकल्पितध्वजं स्फुरदाशाभुजगालिवेल्लितम् ।
जटिलज्वरकुञ्जराङ्कुश ज्वरजुष्टं न जहीहि जातु माम् ॥ ३६॥

न वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे शृणु ।
मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम् ॥ ३७ ॥

अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः ।
तमुपालभमानमुद्धतं धिगिमं मां धिगिमां धियं मम ॥ ३८ ॥

अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्नहि किंचिदर्थये ।
मम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९ ॥

हरिनीलमयावनीतले वरवृन्दाविपिने विलासिनि ।
मणिमण्डपमध्यविस्फुरद्विबुधक्ष्मारुहमूलमाश्रितम् ॥ ४० ॥

शिखिपिच्छमहामणिस्फुरन्मुकुटाकुञ्चितकान्तकुन्तलम् ।
कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥ ११ ॥


१. कदाप्यनु' इति पाठः, २. 'नहि' इति पाठः, ३. अयं श्लोक आर्यमित्रमा सिकपुस्तकमुद्रितकरुणालहर्यां नास्ति, ४. 'अपि' इति पाठः. ५. 'अपि दर्शय मे दयानिधे हरचेतोहरणं वपुस्तव' इत्युत्तरार्धे पाठभेदः, ६. 'स्फुटरत्नमय' इति पाठः, ५. 'अतिनीलघनालकावलिभ्रमणभ्राजि ललाटपट्टले' इत्युत्तरार्धे पाठभेदः.