पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
करुणालहरिः ।


नितरां नरकेऽपि सीदतः किमु हीनं गलितत्रपस्य मे ।
भगवन्कुरु सूक्ष्ममीक्षणं परतस्त्वां जनता किमालपेत् ॥ १९ ॥

नरके निजकर्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥ २० ॥

मृगदन्तिमुखान्मया सह प्रतिरुद्धान्भवजालबन्धने ।
तव मामपहाय मुञ्चतः करुणा किं न भिनत्ति मानसम् ॥ २१ ॥

निरुपाधिजनार्तिहारिणं भगवंस्त्वामवगत्य तत्त्वतः ।
कृतपुण्यचयावहेलनं कथमब्जेक्षण मामुपेक्षसे ॥ २२ ॥

सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
पुरु पापमुपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥ २३ ॥

सुकृतं न कृतं पुरा कदाप्यथ सर्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥ २४ ॥

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न लज्जसे ॥ २५ ॥

अयि गर्तमुखे गतः शिशुः पथिकेनापि निवार्यते जवात् ।
जनकेन पतन्भवार्णवे न निवार्यो भवता कथं विभो ॥ २६ ॥

सुकृतप्रिय मान्यथास्तु ते सुकृतिभ्यः सुखदस्य सुप्रथा ।
अपि पापमबिभ्रतस्तु मां तव विश्वंभरनाम दुर्लभम् ॥ २७ ॥

वचनैः पुरुषैरिह प्रभो यदि रोषं समुपागतोऽसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्धे जगतोऽपसारय ॥ २८ ॥

यदि वीक्ष्य ददासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत् ॥ २९ ॥

पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥ ३० ॥


१. नग' इति पाठः. २. 'अवबुध्य' इति पाठः, ३. 'पुण्यरस' इति पाठः. ४. 'बुध्यसे' इति पाठः, ५. 'अपि' इति पाठः. ६. 'इत्यथास्तु' इति पाठः, ७. 'सुखदश्च' इति पाठः. ८. 'तदा परितुष्यन्' इति पाठः. ९: "त्वपनीय' इति पाठः. ६ द्वि० गु०