पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत् । भट्टिभौमककाव्यादि काव्यशास्त्रं प्रचक्षते ॥ ४ ॥ तत्र केवलशास्त्रेऽपि केचित्काव्यं प्रयुञ्जते । तिक्तौषधरसोद्वेगे गुडलेशमिवोपरि ॥५॥ यथा वैद्यके वाग्भटस्य- 'मधु मुखमिव सोत्पलं प्रियायाः कलरसना परिवादिनी प्रियेव । कुसुमचयमनोहरा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥' शास्त्रं कुर्यात्प्रयत्नेन प्रसन्नार्थमनुष्टुभा । येन सर्वोपकाराय याति सुस्पष्टसेतुताम् ॥ ६॥ काव्ये रसानुसारेण वर्णनानुगुणेन च । कुर्वीत सर्ववृत्तानां विनियोगं विभागवित् ॥ ७ ॥ शास्त्रकाव्येऽतिदीर्घाणां वृत्तानां न प्रयोजनम् । काव्यशास्त्रेऽपि वृत्तानि रसायत्तानि काव्यवित् ॥ ८॥ पुराणप्रतिबिम्बेषु प्रसन्नोपायवर्त्मसु । उपदेशप्रधानेषु कुर्यात्सर्वेष्वनुष्टुभम् ॥९॥ नानावृत्तविशेषास्तु कवेः शस्तस्य शासनात् । यान्ति प्रभोरिखात्यन्तमयोग्या अपि योग्यताम् ॥ १०॥ उग्रगोग्रहसङ्ग्रामे तत्कालसदृशोपमाः । दृष्टास्त एव वैराटेस्त एवाश्वाः किरीटिनः ॥ ११ ॥ तथाप्यवस्थासदृशैः साधुशब्दपदस्थिताः । सुवृत्तैरेव शोभन्ते प्रबन्धाः सजना इव ॥ १२ ॥


१. क्षेमेन्द्रकृत एव चतुर्वर्गसंग्रहाख्यो ग्रन्थः. २. भट्टभौमकृतं रावणार्जुनीय- काव्यं भट्टिकाव्यतुल्यं कश्मीरदेशप्रसिद्धम्. 'उदगात्कठकालापं प्रत्यष्टात्कटकौथुमम्' इति रावणार्जुनीयकाव्यश्लोका) काशिकावृत्तौ 'अनुवादे चरणानाम्' (२।४।३) एत- त्सूत्रव्याख्यान उदाहृतम् , तस्मात्काशिकावृत्तिकर्तुः प्राचीनो भट्टभौमकः. सिद्धान्त- कौमुद्यामपि द्वन्द्वसमासप्रकरणे पूर्वोक्तसूत्रव्याख्यान एवोदाहृतं पूर्वोक्तं श्लोकार्धम्.