पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

यथा मम- 'शौर्यश्रीकेशपाशः करिदलनमिलन्मौक्तिकव्यक्तपुष्पः क्षोणीरक्षाभुजंगः कुलशिखरिलुठत्कीर्तिनिर्मोकपट्टः । शत्रुत्रातप्रतापप्रलयजलघरस्फारधाराकरालः प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥' एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः । अनयैव दिशा सर्वं ज्ञेयं तज्ज्ञैर्यथोचितम् ॥ ४३ ॥ मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा । उपेन्द्रवज्रं वंशस्थं पर्यन्तैकाक्षराधिकम् ॥ ४४ ॥ इत्यादि दर्शितं नेह स्वतःसिद्धो ह्ययं क्रमः । न वेति तदवृत्तज्ञस्तज्ज्ञस्य क्वोपयुज्यते ॥ ४५ ॥ इति परिचितनानारूपवाणीगुणानां विदितविविधदोषोद्देशलेशान्तराणाम् । इदमतिशयसूक्ष्मैर्वृत्तचर्चाविचारै- रभिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके गुणदोषदर्शनं नाम द्वितीयो विन्यासः ।

तृतीयो विन्यासः।

प्रबन्धः सुतरां भाति यथास्थानं विवेचकः (निवेशितैः) । निर्दोषैर्गुणसंयुक्तै: सुवृत्तैर्मौक्तिकैरिव ॥ १ ॥ शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः । चतुष्प्रकारः प्रसरः सतां सारवतो मतः ॥ २॥ शास्त्रं काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् । काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति ॥३॥