पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

साकाराद्यैर्विसर्गान्तः सर्वपादैः सविभ्रमा । स्वागता स्वागता भाति कविकर्मविलासिनी ॥ १५ ॥ यथा मम- 'व्यावलन्ति तरला जलघाराः पान्थसंगमधृतेः परिहाराः । प्रान्तरत्ननिभविद्युदुदाराः प्रावृषः पृथुपयोघरहाराः ॥' न तु यथा ममैव- 'अम्बरेऽम्बुभरलम्बिपयोदे मत्तबर्हिरुचिरेऽद्विनितम्बे । पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥' द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः । प्रनर्तयति यच्चित्तं तत्तोटकमभीप्सितम् ॥ १६ ॥ यथा मम- 'मदपूर्णितलोचनषटूचरणं धनरागमनङ्गकराभरणम् । कमलद्युति मुग्धवधूवदनं सुकृती पिबतीह सुधासदनम् ।।' असमस्तपदैः पादसंधिविच्छेदसुन्दरम् । सर्वपादर्विसर्गान्तर्वंशस्थं यात्यनर्घताम् ॥ १७ ॥ यथा भट्टबाणस्य- 'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनस्तमश्छिदस्र्यम्बकपादपांसवः ।। विपरीतं यथास्यैव- 'नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि ।' प्रारम्भे द्रुतविन्यासं पर्यन्तेषु विलम्बितम् । विच्छिच्या सर्वपादानां भाति द्रुतविलम्बितम् ॥ १८ ॥ यथा मम- 'कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनम् । कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितम् ॥'