पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

शालिनी श्लथवन्धैव खभावेन विभाव्यते । उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ।। १० ॥ श्लथा यथा मम- 'प्लोषक्लेशं प्रोषितानां दिशन्ती मानम्लानिं मानिनीनां दधाना । गाढं सक्ता सद्गुणग्लानिदाने चन्द्रस्य श्रीदुर्जनस्येव जाता ॥' शत्रन्ताक्षरसंयोगैः किंचित्कार्कश्यकारिभिः। अन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥ यथा मम- 'लज्जामज्जल्लोलतारान्तकान्तास्तिर्यङ्निर्यत्केतकीपत्त्रतीक्ष्णाः । मग्नाश्चित्ते कस्य निर्यान्ति भूयः प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥' श्लथस्वभावान्माधुर्यं शालिन्याः परिवर्ज्यते । रुचिः प्रयाति मन्दाग्नेः क्षीरेणात्यन्तमन्दताम् ॥ १२ ॥ विसर्गयुक्तै: पादान्तैर्विराजति रथोद्धता। कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३ ॥ यथा मम- 'अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः । वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ।।' अविसर्गैस्तु पादान्तैर्निष्प्रभैव रथोद्धता । अप्रार्थनाप्रणयिनी म्लानमानेव मानिनी ॥ १४ ॥ यथा कलशकस्य- 'अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥'


१. अनन्तराजसूनुः कलशः कश्मीरमहाराज आसीत्. अस्यैव राज्यकाले बिह्लणकविः कश्मीरदेशं परित्यज्य देशान्तरं गतः, अयं कलशः कविरासीदिति बिह्लणेनैव विक्रमाङ्क- देवचरितेऽष्टादशे सर्गे वर्णितम्, कलशस्य केचन श्लोकाः सुभाषितावलीमध्येऽपि सन्ति. कलशराज्यसमयस्तु १०८० मितात्खिस्तसंवत्सरादारभ्य १०८८ पर्यन्तमासीत्. अस्यैव कलशस्य सूनुर्हर्षदेवो बभूव, यत्प्रशस्तिरूपो राजेन्द्रकर्णपूरग्रन्थः,