पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

युक्तं मरभनैर्यैश्च त्रिभिः सप्ताक्षरैस्त्रिभिः । छदैश्च स्रग्धरावृत्तमेकविंशाक्षरं विदुः ।। ३७ ॥ यथा मम- 'सारारम्भानुभावप्रियपरिचयया खर्गरङ्गाङ्गनानां लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या । आभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या त्वत्कीर्त्या भूषितेयं भुवनपरिवृढ स्रग्धरेव त्रिलोकी ॥' इति सरलतरत्वात्सर्वकाव्योचितत्वा- त्सुकविपरिचितत्वात्कीर्णकर्णामृतत्वात् । परुषविषममात्रादुर्विरामोज्झितेयं ग्रचुररुचिरवृत्तव्यक्तिरुक्ता हिताय ॥ ३८ ॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तावचयो नाम प्रथमो विन्यासः ।

द्वितीयो विन्यासः।

कृते प्रसिद्धवृत्तानां लक्ष्यलक्षणसंग्रहे । अधुना क्रियते तेषां गुणदोषप्रदर्शनम् ॥१॥ न षट्सप्ताक्षरे वृत्ते विश्राम्यति सरखती । भृङ्गीव मल्लिकाबालकलिकाकोटिसंकटे ॥२॥ समासैर्लघुवृत्तानामसमासैर्महीयसाम् । शोभा भवति भव्यानामुपयोगवशेन वा ॥ ३ ॥ अनुष्टुप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम् । यदुक्तं पञ्चमं कुर्याल्लघु षष्ठं तथा गुरु ॥४॥ तत्राप्यनियमो दृष्टः प्रबन्धे महतामपि । तस्तादव्यभिचारेण श्रन्यतैव गरीयसी ॥ ५ ॥


१. अतिशुभ्रया त्वत्कीर्त्या. तितकुसुममालभारिणीवेयं त्रिलोकी शोभत इति भावः.