पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

अष्टाक्षरविरामेण युक्ता ननमयैः सयैः । वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ॥ ३० ॥ यथा मम- 'ननननमयवाणी मेखलाकृष्टिकाले प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् । तृणलवचलनेऽपि खैरिणी शङ्कमाना दिशि दिशि कृतदृष्टिर्मालिनी कस्य नेष्टा ॥' नजभैर्जजलैरन्तगुरुभिर्नर्कुटाभिधम् । वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ॥ ३१ ॥ यथा मम- 'निजभुजजैर्विशालगुणविक्रमकीर्तिभरैः प्रविदधता सुधांशुधवलं भवता भुवनम् । कथय कथं कृतेयमतिरागवतीं जनता चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥' जसजैः सयलैर्गेन युताष्टनवसंह्यतिः । दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ॥ ३२ ॥ यथा मम- 'जवात्स रजसा युतः श्रमविसंस्थुलाङ्गः पथा व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः । कदाचिदवलोकनैः फलविवर्जितैर्मन्यते जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥' नसमै रसलैर्गेन युक्ता सप्तदशाक्षरा । विच्छिन्ना हरिणी पड्भिश्चतुर्भिः सप्तभिस्तथा ॥ ३३ ॥


१. यगणेन सहितैरित्यर्थः. २. मालाधारिणी. ३. नर्कुटशब्दोऽत्राश्चर्यवाचक इति माति. ४: मूर्खः स्वामिदृक्पातमात्रेण वसुधां खहस्तगतां मन्यते.