पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पदानन्तरविन्यासयोगैर्बहुभिरेतयोः । वैचित्र्यजातिरुचिरा भवन्त्येवोपजातयः ॥ २०॥ भकारत्रयसंयुक्तमन्ते गुरुयुगान्वितम् । कथितं दोधकं नाम वृत्तमेकादशाक्षरम् ॥ २१ ॥ यथा मम- 'भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः । तिष्ठति चेतसि चन्द्रकलाभृवक्तजनाभयदोऽथ कपाली ।' पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता । गुरुद्वितययुक्ता च शालिन्येकादशाक्षरा ॥२२ ।। यथा मम- 'मत्ता गोष्ठीगर्भमूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन । मध्वाताम्रखेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ।।' रनरैरन्वितं युक्तं लघुना गुरुणा तथा । ख्यातं रथोद्धता नाम वृत्तमेकादशाक्षरम् ॥ २३ ।। यथा ममः- 'रम्यनर्मकलभोगतर्जनी भ्रूलतेव तरलारियोषिताम् । वैजयन्त्यभिमुखी रणे रणे भाति ते नरपते रथोद्धता ।' गुरुद्वययुतैरन्तेरनभैरुपलक्षिता । गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ यथा मम- 'रत्नभङ्गविमलैर्गुणतुङ्गैरर्थिनामभिमतार्पणसक्तैः । खागताभिमुखनम्रशिरस्कैर्जीव्यते जगति साधुभिरेव ॥ सकारैरन्वितं वृत्तं चतुर्भिर्युगपस्थितैः । उदितं तोटकं नाम वृत्तज्ञैर्द्वादशाक्षरम् ॥ २५ ॥


१. शिवः.२० रथोपरि स्थिति भावः,