पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

पूर्वाक्षरद्वयासक्तविरामेण षडक्षरा । तकारेण यकारेण तनुमध्याभिधीयते ॥१०॥ यथा मम- 'तेन प्रविभक्ता कामं वयसा सा । येन प्रविलासं घत्ते तनुमध्या ।' सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा । अविराम विदुर्वृत्तं कुमारललिताभिधम् ॥ ११ ॥ यथा मम- 'जनं स्मृतिदशाप्तं गतानुगतिकः किम् । न शोचति जनोऽयं कुमारललितं तत् ।।' मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् । विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ।। यथा मम 'मौनं ध्यानं भूमौ शय्या गुवीं तस्याः कामावस्था । मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥' लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसंगतिः । वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ यथा मम- 'लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् । न यत्परोपकारकृद्वृथैव तत्प्रमाण्यपि ॥ पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छ्लोकस्य लक्षणम् ॥ १४ ॥ असंख्यो भेदसंसर्गादनुष्टुप्छन्दसां गणः। तत्र लक्ष्यानुसारेण श्रव्यतायाः प्रधानता ।। १५ ॥


१. केवलं बालखमेवेति भावः. २. प्रमाणयुक्तमपि..