पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

महाकविश्रीक्षेमेन्द्रकृतं सुवृत्ततिलकम् । प्रथमो विन्यासः। गणपतिगुरोर्वक्रश्चूडाशशाङ्ककलाङ्कुरः स्फुटफणिफणारत्नच्छायाछटाछुरणारुणः । गिरिपतिसुतासंसक्तेार्ष्याविलासकचग्रह- च्युतनखशिखालेखाकान्तस्तनोतु सुखानि वः ॥१॥ स्वच्छन्दलघुरूपाय त्रिजगद्गुरवे नमः । स्पष्टवामनवृत्ताय मायावक्राय चक्रिणे ॥२॥ नमश्छन्दोनिधानाय सुवृत्ताचारवेधसे । तप:सत्यनिवासाय व्यासायामिततेजसे ॥३॥ क्षेमेन्द्रेण सुशिष्याणां सरस्वत्याः प्रसाधनम् । सुवृत्ततिलकं वर्णरुचिरं क्रियते मुखे ॥४॥ दृष्ट्वा छन्दांसि सौन्दर्य विचार्यायप्रियः कृतः । प्रसिद्धकाव्यकर्मण्यवृत्तानामेष संग्रहः ॥५॥ दीर्घे संयोगपूर्वे च गुरुसंज्ञा प्रकीर्तिता । असंयोगग्रहं हखं लघुसंज्ञं प्रकीर्तितम् ।।६।। त्रिगुरुः प्राग्गुरुर्मध्यगुरुरन्तगुरुस्तथा । त्रिलघुः प्राग्लघुर्मध्यलघुरन्तलघुस्तथा ॥ ७ ॥ मभजाः सनया रेफतकारौ चेति संज्ञिताः । ज्ञेयो लघुर्लकारोत्र गकारश्च गुरुर्मतः ॥ ८॥ (युग्मम् ) क्वचिद्विक्षिप्तसंस्थानै: क्वचिदेकपदस्थितैः । संयोगस्थैः कचिद्दत्तमुदाहरणमक्षरैः ॥ ९॥



१. शिवस्य. २.ऽऽऽ मगणः, ऽ।। भगणः, |ऽ| जगणः, ।।ऽ सगणः,।। नगणः, |ऽऽ यगणः, 515 रगणः, ऽऽ| तगणः इति गणस्वरूपम्.