पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। एकाग्रतां खकर्मणि दत्तात्रेयः प्रशस्य शरकर्तुः । समशिक्षतात्मयोगं नीचादपि सद्गुणो ग्राह्यः ॥ ९२ ॥ अपि वञ्चयन्विरिञ्चिः कृष्णं वत्सान्सवत्सपान्हृत्वा । खयमेव वञ्चितोऽभून्मायाविषु नाचरेन्मायाम् ॥ ९३ ।। मृगयारतः प्रसेनो विघटितसेनोऽटवीमटन्नेकः । केसरिणा विनिजन्ने नैकाकी संचरेद्विपिनम् ।। ९४ ॥ शिवलिङ्गान्तमलब्धं लब्धं विधिनेति कामधुक्प्राह । अथ निन्धमाप शापं न विदध्यात्कूटसाक्षित्वम् ॥ ९५ ।। पुत्रेण सव्यसाची पराजितो बभ्रुवाहनेनाजौ । तुष्यन्हृदि न ललज्जे पराजयं पुत्रतोऽन्विच्छेत् ॥ ९६ ॥ चिरसंगताय कुन्ती कृष्णाय क्लेशिता कुरुक्षेत्रे । व्यसनं खमाह सर्वं सुहृदे विनिवेदयेद्दुःखम् ॥ ९७ ॥ पाञ्चालीगजराजौ हरिणा दुःशासनावहाराभ्याम् । त्रातौ क्षणात्प्रपन्नौ हरिं भयार्तः प्रपद्येत ॥ ९८ ॥ दैवानोपलब्धां ययातिरब्राह्मणोऽपि गतशङ्कम् । शुक्रसुतामुपयेमे विधिप्रणीते प्रवर्तेत ॥ ९९ ॥ असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः । तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा शृणुयात् ॥ १०० ॥ स्फुटमार्यशतगदितान्पृथक्प्रमाणीकृतानुदाहरणैः शतमेतानुपदेशान्विभावयन्भावयेत्सिद्धिम् ।। १०१ ।। कुतुकाय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम् ।। १०२ ॥ इति श्रीगुमानिकविप्रणीतमुपदेशशतकं समाप्तम् ।


१. अवहारो ग्राहापरनामा जलजन्तुः.