पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपदेशशतकम् । तनये विनयिनि वीरे पार्थः कुरुभिर्हतेऽपि सौभद्रे । युयुधे विधूय शोकं न गते शोको विधातव्यः ॥ ८० ।' व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः स्वकं वृत्तम् । शश्वत्स्मरन्नशोचन्न भाविनं चिन्तयेदर्थम् ॥ ८१ ॥ वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् । राधेयमेव मेने बुधः खवृत्त्यानुवर्तेत ॥ ८२ ॥ हित्वान्यान्हरिदारान्सात्राजित्यै सुरर्षिरर्थज्ञः। दिव्यं ददौ प्रसूनं मनोऽनुवृत्तिं प्रभोः कुर्यात् ।। ८३ ॥ रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन । यक्ष्मी बभूव चन्द्रो नैकरतः स्थाब्दहुस्त्रीकः ॥ ८ ॥ तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः । शूद्रत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ ८५ ॥ सत्राजितं निशायां निर्भरनिद्राणमेव शतधन्वा । अवधीत्स्यमन्तकार्थे नातिशयालुर्भवेद्रात्रौ ॥ ८६ ।। हतवत्यपि निजतनुजान्गाघिसुते वीर्यवान्विधेः सुनुः । प्रतिकर्तुमाप लज्जां कुलानुरूपं वहेच्छीलम् ॥ ८७ ॥ विद्यां कचो वुभुत्सुः शुक्रात्संजीविनीं विनीतात्मा । सुरपक्षगोऽपि लेभे विनवात्संसाधयेत्कार्यम् ॥ ८८ ॥ द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह । द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ॥ ८९ ।। अपि शक्तः परिहर्तुं ययातिशापं हरिर्हते कंसे। राजासनं न भेजे पुरातनीं पालयेत्संस्थाम् ॥ ९० ॥ विमुखो द्युमद्गदातः प्रद्युम्नो धिक्कृतो रणे हरिणा । परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ ९१ ।।


१. अभिमन्यौ. २. सत्यभामाय. ३. नारदः. ४. वसिष्ठः. ५. यदुवंशीया राज्यं न प्राप्स्यन्तीत्यादि रूपमू.