पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अकृतागसमपि रामो वालिनमन्तर्हितश्छलेनैव । सख्युर्जधान शत्रुं सुहृद्रिपुं भावयेद्रिपुवत् ।। ६८॥ कुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुश्चत्कोधाविष्टोऽनुनेतव्यः ॥ ६९ ॥ बद्ध्वार्पितं कुमारैर्द्रोणो द्रुपदं कृतापराधमपि । व्यसृजद्विसृज्य रोषं क्षमिणा पुरुषेण भवितव्यम् ॥ ७० ॥ दुर्योधने सभायां मानभ्रष्टे जहास यद्भीमः | तदभूद्विग्रहबीजं न वैरमुत्पादयेत्वस्मात् ॥ ७१ ॥ खपितॄन्समुद्दिधीर्षन्प्रापथ्य क्ष्मां भगीरथो गङ्गाम् । पावितवानितरानपि हितं चरेत्कर्म सर्वेषाम् ।। ७२ ॥ तारां जहार चन्द्रः स्त्रियं गुरोर्दुद्यतां मिथस्तेन । समरोऽभवत्लुराणां बोध्यं वैरैकबीजं स्त्री ॥ ७३ ॥ अधिवेश्म पूजनीया चिरमुषिता ब्रह्मदत्तभूपस्य । अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ ७४ ॥ लुब्धो बलाज्जिघृक्षन्कामदुवं कौशिको वसिष्ठस्य । न प्राप जातदर्पो हठं न कुर्याद्दुरापेऽर्थे ।। ७५ ।। दृप्तं बलेन रोषान्निबध्य वैरं किरीटिना कर्णम् । कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ॥ ७६ ॥ द्विषतां वधे सहायं ककुत्स्थमिन्द्रो रणे वृषो भूत्वा । अवहद्विहाय लज्जां कार्यार्थी नावहेन्मानम् ॥ ७७ ॥ अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्कुद्धः । चके सहस्रनेत्रं गुणवान्योध्यः सतां शापः ॥ ७८ ॥ धनदः पुष्पकमेकं लङ्कापतये युयुत्सवे दत्त्वा । अलकामपात्समग्रां बहु रक्षेदल्पदानेन ॥ ७९ ॥


१. हस्तिनापुरम्. २. पूजनीया नाम काचिच्चटका. तत्कथा महाभारते शान्तिपर्व- ण्यापद्धर्म एकोनचत्वारिंशदधिकशततमेऽध्याये, हरिवंशे च प्रथमपर्वणि विशेऽध्याये द्रष्टव्या.