पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपदेशशतकम् । क्षात्रं विमृष्य धर्मं मान्यैर्गुरुभिर्द्विजैः समं समरे । युयुधेऽर्जुनो धनुष्मान्धोरमपि खं चरेद्धर्मम् ॥ ५६ ॥ हरिरम्बुधिमथनोत्था सुधां सुरेभ्यः सुरां सुरारिभ्यः । व्यतरत्समं यथार्ं योग्यं योग्याय दातव्यम् ॥ ५७ ।। अथ चैकत्वमवाप्ताः सुरां निपीयोद्धता मिथो घ्नन्तः । युधि यादवाः प्रणेशुीमान्मद्यं न सेवेत ॥ ५८ ॥ यज्ञोत्सवे खपिन्ना हठादनाकारिता सती गत्वा । तनुमजहात्परिभूता क्वापि न गच्छेदनाहूतः ॥ ५९ ॥ मुचकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य । छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ ६ ॥ असकृद्युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् । कृत्वा हरिर्न्यवात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ।। ६१ ॥ तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे । सगरसुताः क्षयमीयुर्न कोपयेत्तापसं शान्तम् ॥ ६२ ॥ मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः । अन्वत्वजत्स्मरांर्तो भेतव्यं दुर्जयात्कामात् ॥ ६३ ॥ बलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् । युधि निर्जितः प्लवंगैर्न वहेगर्वं बुघो मनसा ॥ ६४ ।। मातुर्वाक्शरविद्धः पञ्चाब्दो दुष्करं तपस्तप्त्वा । ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ।। ६५ ॥ नीता रहसि सखीभ्यो बहुमहिता बल्लवी पथि श्रान्ता | वह मामिति हरिमूचे न ह्यतिसंमानयेत्प्रमदाम् ॥ ६६ ॥ दधतः खलक्ष्म युद्धे मुहुः शृगालस्य जल्पतः परुषम् । श्रुत्वा जहास शौरिर्न वाग्विवादं शठैः कुर्यात् ॥ ६७ ॥


१. दक्षप्रजापतिना. २. राजविशेषेण,

३ जरासंधात्.४ द्वारकारूपम्. ५. उत्ता- नपादसूनुः. ६. राजविशेषस्य.