पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । शब्दो नैकट्यवाची । बालिकाशब्दः शङ्कास्ध्नोरुपरिभ्रूलतापुच्छदेशवाचकः कपोलप्रान्त- गताग्रकुन्तलपुञ्जविशेषवाचको वा । सा बालिकासर्पमातृत्वेनोत्प्रेक्षिता । किंभूते लाला- टरङ्गे । रजनिकरतनोश्चन्द्रमण्डलस्यार्धखण्डवदर्धभागवदवदाते निर्मले ॥ रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष- प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकेशानलिङ्गम् । भूयाद्भूयो विभूत्यै मम भुवनपतेर्भ्रूलताद्वन्द्वमध्या- दुत्थं तत्पुण्ड्रमूर्ध्व जनिमरणतमःखण्डनं मण्डनं च ॥ ४३ ॥ भुवनपतेर्भगवतस्तदूर्ध्वं पुण्डूं तिलकं मम भूयो विभूत्या अधिकैश्वर्याय भूयात् । किं- लक्षणम् । जनिमरणतमःखण्डनम् । जन्ममरणकारणाज्ञानरूपतमोनाशकमित्यर्थः । भ्रूलताद्वन्द्वमध्यादुत्थं स्वयमेवोद्भूतं स्फाटिकेशानलिङ्गं स्फटिकमणिमयशिवलिङ्गमिव । रूक्षः कुरो यः स्मारेक्षुचापात्कामसंबन्धीक्षुकोदण्डाच्च्युतः शरनिकरस्तेन क्षीणं कृशमे- वंविधं तत् लक्ष्मीकटाक्षेत्यादि चेति कर्मधारयः । लक्ष्मीकटाक्षा एव प्रोत्फुल्लद्वि- कसत्पदानां माला तया विलसितमुज्जृम्भितं महितं महत्त्वं यस्य तच्च तत्स्फटिके- शानलिङ्गं च ॥ पीठीभूतालकान्ते कृतमुकुटमहादेवलिङ्गप्रतिष्ठे लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय । प्रोध्दात्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्तीं स्फुटाङ्गं पट्वीयं भावनाख्यां चटुलमति नटी नाटिकां नाटयेन्नः ॥ ४४ ॥ कैटभारेर्भगवतो ललाटमेव लालाटं तस्मिन्नाट्यरङ्गे नोऽत्माकमियं खभावसिद्धा चटुला चपला मतिरेव नटी नर्तकी भावनाख्यां भावनानाम्नीं नाटिकां खकन्यां चिराय दीर्घकालं नाटयेन्नर्तयेत् । अस्मन्मतिर्भगवल्ललाटे ध्यानात्मिकां वृत्तिं नैरन्तर्येण प्रवर्तयेदित्यर्थः । किंलक्षणा । पट्वी चतुरा। किं कृत्वा । आत्मतन्द्री खालस्यं तद्रूपां प्रकटपटकुटीं प्रसिद्धावरणपटं प्रोद्धाट्य । आलस्यरूपनिबिडतिरस्करिणीमपसार्येत्यर्थः । किंलक्षणां नाटिकाम् । स्फुटाङ्गं प्रस्फुरन्तीम् । कथंभूते नाट्यरङ्गे । पीठीभूतः पीठतां गतो योऽलकान्तः केशोद्गमप्रान्तदेशो ललाटोपरिरेखा तत्र कृता मुकुटलक्षणमहा- देवलिङ्गस्य प्रतिष्ठा यस्मिन् । तथा विकटतरतटेऽतिशयेन विशालतटे ॥ मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली कालिन्द्यारुह्य मूर्घ्नो गलति हरशिरःखर्धुनीस्पर्धया नु । राहुर्वा याति वक्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा लोकैरालोच्यते या प्रदिशतु सकलैः साखिलं मङ्गलं नः ॥ ४५ ॥