पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। दभिराममारक्तमधरमणि मुहुर्दृष्ट्वा पुनःपुनरवलोक्य दष्टुं खादितुमवतरतः शुकस्य कीरस्य स्फुटं यथा स्यात्तथा तुण्डद्ण्डायते चञ्चदण्डवदाचरंस्तिष्ठति ॥ दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः । अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ ४० ॥ पद्मनेत्रस्य पुण्डरीकाक्षस्य नेत्रे अस्मान्पातां रक्षताम् । किंलक्षणे । अब्जप्रमे । तथा प्रचुरतरा या कृपा तया निर्भरं परिपूर्णं यथा स्यात्तथा प्रेक्षमाणे । भक्तानिति शेषः । तथाताम्रेषद्रका शुक्ला सिता च या रुचिः कान्तिस्तया रुचिरे । ते के । मुनीन्द्रा ययोरेव रूपमिमौ प्रसिद्धौ रवीन्दू अभिदधति वदन्ति । किंलक्षणौ रवीन्दू । जगति दिक्प्राच्या- दिका, कालो मुहूर्तादिः । तौ वेदयन्तौ प्रकाशयन्तौ । अत एव त्रैलोक्यालोकदीपौ। तथा मुहुः प्रसहोरात्रं संचरन्तौ भ्रमन्तौ ॥ लक्ष्माकारालकालिस्फुरदलिकशशाशर्घसंदर्शमील- न्नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छदाभे । लक्ष्मीनाथस्य लक्षीकृतविबुधगणापाङ्गबाणासनार्घ- च्छाये नो भूतिभूरिप्रसवकुशलते भ्रूलते पालयेताम् ॥ ११ ॥ लक्ष्मीनाथस्य भूलते नोऽस्मान्पालयेताम् । कथंभूते । लक्ष्माकाराश्चिह्नाकृतयो येऽलकास्तेषामालिस्तया स्फुरद्यदलिकं ललाटं तदेव शशाङ्कार्घं तस्य संदर्शनेन मीलन्ती ये नेत्राम्भोजे तयोः प्रबोधे विकासननिमित्तमुत्सुकरतथा निभृततरमालीनो यो भृङ्गस्तस्य छदौ पक्षौ तद्वदाभा ययोः । तथा लक्षीकृतो विबुधगणो यैस्तेषामपाङ्गबाणानां यदसनं धनुस्तस्यार्धच्छाये । धनुरर्धभागसदृश इत्यर्थः । तथा भूतीनामैश्वर्याणां यो भूरिप्रस्रवो- ऽधिकोद्भूतिस्तत्र कुशलता सामर्थ्य ययोः । भक्तानां सर्वाभीष्टप्रद इत्यर्थः ॥ पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं येनेषच्चालितेन खपदनियमिताः सासुरा देवसंघाः । नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते कालव्यालद्वयं वा विलसति समया बालिकामातरं नः ॥ १२ ॥ पतगपतिर्गरुडस्तेन गतिर्गमनं यस्य तस्य भगवतो भूयुगं नोऽस्मान्पातालपातान्नरक- पतनात्याताद्रक्षतात् । कीदृशम् । भुग्नमध्यम् । येनेषच्चालितेन सासुरा देवसंघाः खपदे खखस्थाने व्यापारे च नियमिता वर्तन्ते । उत्प्रेक्षते ललाटमेव लालाटं तदेव रङ्गो नृत्यस्थानं तस्मिन्बालिकामातरं समया नृत्यत्कालव्यालद्वयं वा । वाशब्द इवार्थः । समया-