पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । श्रीरिव श्रीर्यस्याः या नियं स्नेहातिरेकात्प्रेमबाहुल्यान्निजकमितुः खकान्तस्य विप्रयोगं वियोगं न क्षमते सा विप्रयोगाक्षमा । एवंभूता सती वक्रेन्दोर्मुखचन्द्रस्यान्तराले मध्ये कृतवसतिर्नक्षत्रराजिरिवालमाभाति ॥ ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां शंभो शक त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः । इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- स्यास्येन्दोरास्रवन्ती वरवचनसुधा ह्लादयेन्मानसं नः ॥ ३७ ।। विष्णोरास्येन्दोर्मुखचन्द्रादास्रवन्ती सम्यङ्ति:सरन्ती वरा श्रेष्ठा वचनसुधा वचनामृतं नोऽस्माकं मानसं हादयेत् सुखयतु । 'आह्लादयेत्' इति वा छेदः । किंलक्षणस्य । सेवावनम्रं सुरमुनिनिकरं वीक्ष्य प्रसन्नस्य । अनुग्रहेच्छोरित्यर्थः । का वचनसुधा । हे ब्रह्मन्प्रजापते, ब्रह्मणि स्वस्वरूपेऽजिह्मामकुटिलां तादात्म्यलक्षणां मतिमपि कुरुषे । हे देव शंभो, त्वां संभावये । कुशलं पृच्छामीत्यर्थः । हे शक्र, अमरैः सह त्रिलोकीमवसि किम् । सम्यक्पालग्रसीलर्थः । हे नारदाद्या मुनयः, वो युष्माकं किं सुखं वर्तते ॥ कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य- न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे- र्गाढामागामिनीं नो गमयतु विपदं गण्डयोमण्डलं तत् ॥ ३८॥ मुरारेर्नारायणस्य तद्गण्डयोः कपोलयोमण्डलं नोस्माऽकं गाढां दृढामनेकानर्थकरीमा- गामिनीं भाविनीं विपदं गमयतु दूरीकरोतु । 'दमयतु' इति वा पाठः। किंलक्षणम् । प्रोयन्प्रादुर्भवन्यः सूर्यस्तस्यांशुवदाजद्दीप्यमानं यन्मरकतरत्नं तन्निर्मितो मुकुरो दर्प- णस्तस्य य आकारस्तस्य चोरम् । तत्सदृशमित्यर्थः । कोमलम् । अलिवच्छ्यामलम् । तथा कर्णस्थयोः वर्णमययोः कम्रयोः कमनीययोरुज्ज्वलयोर्मकराकारयोर्महाकुण्डलयोः प्रोतानां दीप्यतां माणिक्यानां श्रीप्रतानैः परिमिलितं परितो व्याप्तम् ॥ वक्राम्भोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामं दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः । घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्तात् ॥ ३९ ॥ मुरारेर्घोणो नासिकादण्डो नोऽस्माकं प्राणदानाय जीवनं दातुं स्वाद्भूयात् । कथं- भूतः । श्रवणयुगे लसतोः कुण्डलयोरुस्रै: किरणैः शोणीकृतात्मा । प्राणाख्यस्यानिलस्य प्राणवायोः प्रसरणसरणिः । संचारमार्ग इत्यर्थः । यो वक्राम्भोजे लसन्तं पक्वबिम्बफलव-