पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कनकरुचिदुकूलं चारुबर्हावचूलं
कमपि निखिलसारं नौमि गोपीकुमारम् ॥ १॥

मुखजितशरदिन्दुः केलिलावण्यसिन्धुः
करविनिहितकन्दुर्बल्लवीपाणबन्धुः ।
वपुरुपसृतरेणुः कक्षनिःक्षिप्तवेणु-
र्वचनवशगधेनुः पातु मां नन्दसूनुः ॥ २ ॥

ध्वस्तदुष्टशङ्खचूड बल्लवीकुलोपगूढ
भक्तमानसाधिरूढ नीलकण्ठपिच्छचूड ।
कण्ठलम्बिमञ्जुगुञ्ज केलिलब्धरम्यकुञ्ज
कर्णवर्तिफुल्लकुन्द पाहि देव मां मुकुन्द ॥ ३ ॥

यज्ञभङ्गरुष्टशक्रनुन्नघोरमेधचक्र-
वृष्टिपूरखिन्नगोपवीक्षणोपजातकोप ।
क्षिप्तसव्यहस्तपद्मधारितोच्चशैलसद्म
गुप्तगोष्ठ रक्ष रक्ष मां तथाद्य पङ्कजाक्ष ॥ ४ ॥

मुक्ताहारं दधदुडुचक्राकारं सारं गोपीमनसि मनोजारोपी ।
कोपी कंसे खलनिकुरम्बोत्तंसे वंशे रङ्गी दिशतु रतिं निःसङ्गी ॥ ५ ॥

लीलोद्दामा जलधरमालाश्यामा क्षामा कामारभिरचयन्ती रामाः ।
सा मामव्यादखिलमुनीनां स्तव्या गव्यापूर्तिः प्रभुरघशत्रोर्मुर्तिः ॥ ६ ॥

पूर्ववर्तुलशर्वरीपतिगर्वरीतिहराननं
नन्दनन्दनमिन्दिराकृतवन्दनं धृतचन्दनम् ।
सुन्दरीरतिमन्दिरीकृतकंदरं धृतमन्दरं
कुण्डलद्युतिमण्डलप्लुतकंदरं भज सुन्दरम् ॥ ७॥

गोकुलाइनमङ्गलं कृतपूतनाभवमोचनं
कुन्दसुन्दरदन्तमम्बुजवृन्दवन्दितलोचनम् ।
सौरभाकरफुल्लपुष्करविस्फुरत्करपल्लवं
दैवतन्त्रजदुर्लभं भज बल्लवीकुलवल्लभम् ॥ ८॥

तुण्डकान्ति दण्डितोरुपाण्डुरांशुमण्डलं
गण्डपालिताण्डवालिशालिरत्नकुण्डलम् ।