तल्पं मुञ्च ददस्व लोचनफलं त्वं देहभाजामिति
प्रातर्बन्दिगिरो जयन्ति भवतः संबोधने नित्यशः८७(विशेषकम् )
भानोर्मण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः
किं ते तात बलानुजेति जननीवाग्वीचिमाचामतः ।
अर्धोन्मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं
जृम्भारम्भविशेषशोभि वदनाम्भोजं भजामस्तव ॥ ८८ ॥
मुञ्चन्तं शयनं भवन्तमभितः संगम्य गोपाङ्गना-
स्तैलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देव्यश्चिरम् ।
उज्झन्त्यः सुमनोम्बराणि सुमनोभावा वरं संगताः
प्रायो गोपवधूत्वलब्धिमनसैवाकाशसाम्यं दधुः(१) ॥ ८९ ॥
प्रातर्भोजनमारचय्य विपिनं प्रस्थातुकामे त्वयि
प्रायो गोपवधूलतासु मिलितः कंदर्पदावानलः ।
यद्गोधूलिमिषादुदेति परितो धूमालिरनंलिहा
तासामश्रुरसाः स्रवन्ति च मुहुर्दैन्दह्यमानेऽन्तरे ॥ ९० ॥
पञ्चास्ये चतुरानने दशशतीनेत्रादिपूर्वे गवा-
मध्वन्यध्वनि लोकपालनिवहे भूमीलुठन्मूर्धनि ।
तयाघ्राजिनभूषणादिभिरलं बस्ते समस्ते पशौ
गोपाः कोपवशागृहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१ ॥
तिग्मांशौ तपति क्वचिज्जलमुचां स्तोमे जलं मुञ्चति
प्रेमाः प्रतनोति यः खवपुषा चित्रातपत्रं तव ।
सोऽयं भास्करकोटिभास्वरमहःसंभारपाटच्चरः
पारीन्द्रोऽसुरदन्तिनां दिशतु मे भव्यं भुजंगान्तकः ॥ ९२ ॥
मध्याहे यमुनातटे विटपिनां मूले वयस्यैः समं
दध्यन्नान्युपभुज्य रज्यति पुनस्तत्नीडने च त्वयि ।
देवेन्द्रस्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः
काकाकारजुषो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव ॥ ९३ ॥
१.सिंहः. २. गरुडः