पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

यस्यां तुङ्गतरङ्गसंगमवशादीता भुजंगभ्रमा-
दालिङ्गन्ति वराङ्गनास्तव जलक्रीडाजुषोऽहं हठात् ।
सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर-
स्थापत्यं तटिनी शिवं दिशतु मे गोपालभूपालज ॥ ८१ ॥

उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम-
मृङ्गश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् ।
शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत-
स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ॥ ८२ ॥

पुष्पं त्वय्यवचिन्वति प्रियतमावृन्देन सार्ध मुदा
वृन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् ।
तसिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्दैवत-
स्तोमेऽपि ब्रजभूपते विजयते तैस्तैश्चितं ते वपुः ॥ ८३ ॥

कान्ताकोटिकलाकुलस्य भवतः संतोष्य रासे सर-
क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति ।
सातकं समुपागतस्य सदनाद्यान्तं शयाने जने
कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः(१) ॥ ८४ ॥

उद्यन्नेव भवानिव व्रजभुवां सर्वापदां संहति-
ध्वान्तस्तोममनुत्तमन्तमनयत्कान्तः सरोजन्मनाम् ।
सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने
लोकानां किल नन्दवंशतिलक स्वाप नायं क्षणः ॥ ८५ ॥

मित्रेणेह तमस्वस्विनीं विनिहतां नाथ त्वया पूतनां
व्याधूतामिव कैरवेष्वपि भवद्विद्वेषिवक्त्रद्युतिम् ।
आशां पश्य पुरंदरस्य दयितां रक्ताम्बरालंकृतां
सिन्दूरान्वितकुम्भमम्बरमणेबिम्बं वहन्तीं पुरः ॥ ८६ ॥

गीतज्ञाः कवयो नया बहुकलाशिक्षासु दक्षाः परे
विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्युकाः।