पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आद्यः पल्लवसंपदं करपदे बिम्बाधरे चापरः
शुण्डादण्डगुणं तवोरुयुगले येनादधे माधव ॥ ४८॥

रम्भास्तम्भयुगं न तद्यदुपरि स्थूलं तथोरुद्वयं
तूणीरौ मकरध्वजस्य सुमनोमोदेन विद्मो वयम् ।
हा कष्टं मधुकैटभौ स्फुटमदौ किं कैटभारे हठा-
न्निष्पिष्टौ शतकोटिकोटिकठिनौ तस्मिन्स्थले कोमले ॥ ४९ ॥

स्तम्भद्वैतमिदं पयोनिधिसुतागेहस्य मन्दाकिनी-
स्यन्दामन्दमरन्दिताङ्घ्रिकमलद्वन्द्वस्य नालायुगम् ।
त्वज्जङ्घायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं
संपत्तिद्विपसंघयन्त्रणविधावालानयुग्मं भजे ॥ ५० ॥

विद्वान्सोऽपि कथं कठोरकमठीपृष्ठेन तुल्यं वद-
नीदृक्पादयुगं कथं नु कमला वक्षोजशैले दधत् ।
धिङ्मन्दां वसुधामिदं मधुरिपो गोचारणे संचर-
त्याषाणाङ्कुरकण्टकादिषु हठादृष्ट्वा विदीर्णा न यत् ॥ ५१ ॥

यद्रत्नौघमरीचयोऽपि समताव्यावर्तनं विश्वतः
कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुस्यन्दिभिः ।
यच्च ब्रह्मशिवेन्द्रवन्दितपदद्वन्द्वोपरि द्योतते
तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां मादृशैः ॥ ५२ ॥

शेते यत्कमलालया तव पदाम्भोजद्वये संगता
धाता तत्र तनूपधानयुगलं गुल्फच्छलान्निर्ममे ।
किं वा मन्मथकारुणा विरचिते तस्या मुदे कन्दुके
सा यत्क्रीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ॥ ५३ ॥

या रक्ता दशलोकपालमुकुटप्रान्तत्विषः संततं
कल्पक्ष्मारुहपुष्पसंभृतरुचस्त्वत्पादमूले बभुः ।
ता दीव्यन्नखराञ्चिताङ्गुलितया जानन्ति सत्यं जनाः,
स्वस्मिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् (8) ॥ ५४ ॥


१. वजाप्रकठोरौ.