पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

नीलाम्भोरुहवल्लिरुल्लसति ते नाभीसरस्यां ध्रुवं
यच्छ्रीवत्समिषाद्विभर्ति कुसुमं नालं च रोमावली ।
यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज
प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामभ्रुवाम् ॥ १३ ॥

नीरूपोऽपि धनद्युतिर्मुनिमनोमात्रैकपात्रीकृतो-
ऽप्याभीरीगणसंगतः सुखघनोऽप्यानन्दितो बान्धवैः ।
ज्ञानात्माप्यतिमुग्धतामुपगतो वामभ्रुवां विभ्रमै-
रित्थं ते त्रिवलीमिषान्मुरहर त्रेय्यस्ति चित्रार्पिता ॥ ४४ ॥

देव्यः पल्लवसंपदा विदघते सौभाग्यलक्ष्मीं श्रुतौ
स्वच्छन्दं सुमनःफलानि विबुधा विन्दन्ति ते सेवया ।
वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः
प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५ ॥

विश्वानन्दकदम्बसंपदमतिस्निग्धं तमालद्युतिं
दृष्ट्वा निर्भरविभ्रमं घन इति त्वां संगता विद्युतः ।
त्वद्रूपामृतसिन्धुसंगमवशात्प्राप्याम्बरप्रच्यवं
चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्बरत्वं दघुः ॥ ४६ ॥

काञ्ची ते धृतयोगसंपदभितो जाता विशालाकृति-
र्यावन्ती मधुरा ध्वनिं विदधती पश्चादयोध्याभवत् ।
मायाद्वारवती शिवाधिवसतिः सा काशिका दृश्यते
तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता ॥ ४७ ॥

जानीमः सहजां त्वदङ्गमिलितामालोक्य पद्मालयां
तत्संगस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ ।


१. निबिडकान्तिः, मेघच्छविश्व. २. वेदत्रयी. ३. चकिता. ४. समूह, वृक्षविशेषश्च. ५. काञ्ची, विशाला (बदरीनारायणपुरी ), अवन्ती ( उज्जयिनी), मधुरा (मथुरा), अयोध्या, माया ( हरिद्वारम् ), द्वारवती ( द्वारका), काशिका ( काशी), इत्यष्टपुरी- नामान्यत्रोपन्यस्तानीति चमत्कारः.