पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तन्मध्ये पुनरिन्द्रनीलमणिभिः संपादिता वेदिका
तौ बाहू मधुजिद्वदन्ति भवतो वक्षःस्थली तामपि ॥ ३६ ॥

यद्वक्तः कमलाकरं करतलेनालम्बते भास्कर-
स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा ।
तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ-
व्याजेनेति मुकुन्द मादृशि जने तर्कः समुज्जृम्भते ॥ ३७ ॥

आलोक्याखिलवेदशास्त्रजलधेस्तत्त्वं यदेकान्ततः
कृत्वा संकलितं स्वकीयनिलये क्षीराब्धिमध्ये धृतम् ।
सर्वार्थप्रतिभासकं ब्रजकुलालंकार तत्कौस्तुभ-
व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं सांप्रतम् ॥ ३८ ॥

यात्वा विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर-
दीप्तिर्योग्यमिदं कथं मुररिपो नक्तंदिनं द्योतते ।
आं ज्ञातं दयितं तवाननविधू यान्तीमिमां यामिनी
रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सपत्नीमियम् (१) ॥ ३९ ॥

यः पाशेन यशोदया नियमितो येनापराधं विना
तस्मिन्नस्ति बलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसिनः ।
एवं चिन्तनतत्परः कृशतरस्त्वन्मध्यदेशो भृशं
याशोदेय स शोकमुद्रिति ते रोमावलिव्याजतः (१) ॥ ४० ॥

सृष्ट्यादौ प्रकृतिर्गुणत्रयमयी या खीकृतासीत्त्वया
सेयं सत्त्वमयी सुखाय जगतां हाराकृतिस्ते भुवि ।
गुञ्जादाममिषान्मुकुन्द दधती रागाद्रजोविग्रह
नाभीसीम्नि तमोमयी पुनरियं रोमावली राजते ।। ४१ ॥

सौन्दर्यामृतवारिधौ संरमहायादःसमारम्भतः
संभूता अमिरम्भसां सुललिता जातास्ततो वीचयः ।
तां जाने स्फुरदिन्द्रनीलघटितश्रीसंपुटार्धधुर्ति,
स्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकृते ॥ ४२ ॥


१. स्मर एव महद्यादो जलजन्तुः.