पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सौन्दर्यामृतदीर्घिके तव दृशौ पक्ष्मावलिश्चैतयोः
कूले कामकृषीवलेन रचिता शृङ्गारसस्योन्नतिः ।
दृग्भङ्गीनिंगदन्ति यास्तु विबुधा रत्यम्भसां वीचय-
स्ताः स्युगोपवधूहृदम्बुजवनीदोलायिता यत्नतः ॥ ११ ॥

दूरे ब्रह्मशिवेन्द्रपूर्वदिविषद्बुन्दे नमस्कुर्वति
व्यावल्गहजबालकौघलगुडन्युट्यकिरीटे हठात् ।
सावज्ञा मधुमत्तसुन्दरदृशां शोभाद्विषः सालसा
दृक्पातस्तव नन्दवंशतिलक स्वान्ते सदा सन्तु मे ॥ १२ ॥

मुक्तेरप्यतिदुर्लमा हिमगिरिप्रस्सन्दिमन्दाकिनी-
धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि ।
वाञ्छातोऽप्यतिविस्तृता विषयिणां त्वत्पादचिन्तापर-
स्वान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३ ॥

कल्पान्ताग्निशिखोन्नतिर्दितिसुतत्राते प्रपन्ने जने
पीयूषवसिन्धुवृद्धिरमरस्तोमे विभूत्यायतिः ।
सीमा प्रेमभरस्य गोपनिकरे कंदर्पकाण्डाहति-
ब्रह्माण्डोदरसुन्दरीहृदि हरे जीयादृशोस्ते द्युतिः ॥ १४ ॥

निर्वन्धेन यदीन्द्रनीलमहसा संपादितौ दर्पणौ
ताभ्यां किं तुलना कपोलतलयोः संभाव्यते वा न वा ।
एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते
शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५ ॥

त्वां पादाङ्गदकङ्कणाङ्गदशिरोलंकारहाराम्बरैः
संपूज्य प्रददौ सुतामथ मणि रत्नाकरः कौस्तुभम् ।
आत्ये तस्य सुतः सुधांशुरखिलां कान्ति यदा दत्तवा-
न्स्वाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६ ॥

लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति-
स्तस्यामद्भुतबुहृदः समभवत्तत्रापि फेनोद्गमः ।'