पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ९९ ॥

श्रव्या श्रीव्यासदासेन समासेन सतां मता ।
क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १०० ॥

इति श्री प्रकाशेन्द्रात्मजव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृता चारुचर्या समाप्ता ।


श्रीमधुसूदनसरस्वतीविरचिता
आनन्दमन्दाकिनी।

वाग्देवीचतुरास्वपञ्चवदना नित्यं सहस्राननो-
ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः ।
मार्त्याः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया
हीनः किं करवाणि तां ब्रजकुलोत्तंस प्रशंसां तव ॥ १॥

नित्यं ब्रह्मसुरेन्द्रशंकरमुखैर्दत्तोपहाराय ते
विवादास्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ ।
तद्वद्देव निरर्थकैः कतिपयै रुक्षाक्षरैनिर्मितां
वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुति निस्त्रपः ॥ २ ॥

शश्वद्ब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः
स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते ।
चित्रालंकृतिशालिभिः सुललितैर्नित्यं कवीनां स्तवैः
सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोदं यथा ॥ ३ ॥

चित्राकारकिरीटकोटिविलसद्रत्नघौकान्तिच्छटा-
संघट्टेन विचित्रमम्बरतलं कुर्वस्थितं मूर्धनि ।
जीयात्केकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी
स्वर्णार्द्रेः शिखरे पुरंदरघनुर्व्यूहस्य निन्दावहम् ॥ ४॥


१.भीष्मस्य गरुडध्वजस्मरणं महाभारते शान्तिपर्वणि राजधर्मे सप्तचत्वारिंशेऽध्याये द्रष्टव्यम् . २. अद्वैतसिद्धि-प्रस्थानभेद-भगवद्गीताटीका-महिमस्तवटीका-सिद्धान्तबिन्दुटी- काद्यनेकग्रन्थकर्ता श्रीमधुसूदनसरस्वती कस्मिन्समये बभूवेति न निश्चयः. ३. श्रीकृष्णस्य केशादिपादान्तवर्णनरूपं स्तोत्रमिदम्.