पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

न सतीनां तपोदीप्तं कोपयेत्क्रोधपावकम् ।
वधाय दशकण्ठस्य वेदेवत्यत्यजत्तनुम् ॥ ६६ ॥

गुरुमाराधयेद्भक्त्या विद्या विनयसाधनम् ।
रामाय प्रददौ तुष्टो विश्वामित्रोऽस्त्रमण्डलम् ॥ ६७ ॥

वसु देयं स्वयं दद्याद्वलाद्यद्दापयेत्परः।
द्रुपदोऽपन्हवी राज्यं द्रोणेनाक्रम्य दापितः ॥ ६८ ॥

साधयेद्धर्मकामार्थान्परस्परमबाधकान् ।
त्रिवर्गसाधना भूपा बभूवुः सगरादयः ॥ ६९ ॥

स्वकुलान्यूनतां नेच्छेत्तुल्यः स्यादथवाधिकः ।
सोत्कर्षेऽपि रघोर्वंशे रामोऽभूत्स्वकुलाधिकः ॥ ७०॥

कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्वलम् ।
लोमशादिष्टतीर्थेभ्यः प्रापुः पार्थाः कृतार्थताम् ॥ ७१ ॥

आपत्कालोपयुक्तासु कलासु स्यात्कृतश्रमः ।
नृत्तवृत्तिविराटस्य किरीटी भवनेऽभवत् ॥ ७२ ॥

अरागभोगसुभगः स्यात्प्रसक्तविरक्तधीः ।
राज्ये जनकराजोऽभून्निलेंपोऽम्भसि पद्मवत् ॥ ७३ ॥

अशिष्यसेवया लाभलोभेन स्याद्गुरुर्लघुः ।
संवर्तयज्ञयाच्ञाभिर्लज्जां लेभे बृहस्पतिः ॥ ७४ ॥

नष्टशीलां त्यजेन्नारी रागवृद्धिविधायिनीम् ।
चन्द्रोच्छिष्टाधिकप्रीत्यै पत्नी निन्द्याप्यभूद्गुरोः ॥ ७५ ॥

न गीतवाद्याभिरतिर्विलासव्यसनी भवेत् ।


१. वेदवत्येव जन्मान्तरे सीता समभूत्. तत्कथा वाल्मीकीयरामायण उत्तरकाण्डे सप्तदशे सर्गे द्रष्टव्या. २. द्रुपदकथा महाभारत आदिपर्वण्यष्टत्रिंशदधिकशततमेऽध्याये द्रष्टव्या. ३. लोमशोक्तं तीर्थवर्णनं महाभारते वनपर्वण्यशीतितममध्यायमारभ्य द्रष्टव्यम्. ४. अर्जुनः. इयं कथा महाभारते विराटपर्वण्येकादशेऽध्याये द्रष्टव्या. ५. इयं संवर्त- बृहस्पतिकथा महाभारत आश्वमेधिकपर्वण्यष्टमनवमाध्याययोर्दष्टव्या. ६. इयं बृहस्प- तिपात्नीकथा हरिवंशे प्रथमपर्वणि पञ्चविंशेऽध्याये द्रष्टव्या.