पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वर्णो मणिविशेषस्तनिर्मितो यो महाकूर्मस्तस्य सौन्दर्य लावण्यं हरतीत्येवंविधा छाया कान्तिर्यस्य तत् । यथा श्रेयःप्रदायि । पादावेवाम्भोजन्मनी कमले तयोः सेवा तस्यां समवनता ये सुरास्तेषां यो व्रातः समूहस्तस्मिन्यानि भाखन्ति किरीटानि तेषु प्रत्युता निखाता य उच्चावचा नानाविधा अश्मप्रवरा मणिश्रेष्ठास्तेषां करा रश्मयस्तेषां गणैः समूहैश्चित्रितं कर्बुरितं यद्विभाति ॥ श्रीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः सौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचौरे । सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ॥ १८ ॥ नारायणस्येमे जङ्घे मुहुः शश्वदस्मदंहः पापं हरन्त्यौ सत्यौ जयताम् । श्रीमत्यौ शोभावस्थौ । चारु सुन्दरं यथा स्यात्तथा वृत्ते वर्तुले । रमाया लक्ष्म्याः करयोः परिमल- नेन य आनन्दस्तेन हृष्टे पुलकिते । सौन्दर्येण लावण्येनाढ्यो य इन्दनीलोपलस्तेन रचितौ यौ महादण्डौ तयोः कान्तिचौरे । सूरीन्द्रैर्विद्वच्छ्रेष्ठैः स्तूयमाने वर्ण्यमाने । सुरकुलस्य सुखदे । यस्मात्सूदितारातिसंघे हतदेवशत्रुकुले ॥ सम्यक्साह्यं विधातुं सममपि सततं जङ्घयोः खिन्नयोर्ये भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते । चिचादर्शं निघातुं महितमिव सतां ते समुद्गायमाने वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥ १९॥ अजितस्य हरेस्ते जानुनी नोऽस्माकं चित्ते मुदमनिशं विधत्ताम् । वृत्ताकारे मण्ड- लवत्समवर्तुलाकारे । सतां भक्तानां चित्तादर्श मनोदर्पणं निधातुं समुद्गायमान आद- र्शकोषायमाणे इव । महितं निर्मलीकृतं चित्तदर्शम् । ये खिन्नयोर्जङ्घयो: सम्यगौचि- त्येन साह्यं सहत्वम् । उपकारमिति यावत् । समं युगपदेव भारीभूतस्योरुदण्डद्वयस्य यद्धरणं धारणं तस्मिन्कृत उत्तम्भभावोऽवष्टम्भलं तद्भजेते । अपिशब्दः संभावनायाम् ।। देवो भीर्ति विधातुः सपदि विदधतौ कैटभाख्यं मधुंया- वारोप्यारूढगर्वावधिजलधि ययोरेव दैत्यो जघान । वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला- वूरू चारू हरेतौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥ २० ॥ हरेस्तावूरू नोऽस्माकं मानसेऽतिशयिनीं मुदं विधत्ताम् । चारू मनोहरौ । वृत्ता वर्तुलौ । अन्योन्यं परस्परं तुल्यौ समौ । चतुरं यथा स्यात्तथोपचयं पुष्टिं बिभ्रती । करिकरसदृशाकारावित्यर्थः । अभ्रनीलौ सजलजलदवच्छयामौ । तौ कौ। ययोरिति सप्तमी-