पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

च्युतः स्मृतो जनैः स्वर्गमिन्द्रद्युम्नः पुनर्गतः ॥ ४५ ॥

न कदर्यतया रक्षेल्लक्ष्मीं क्षिप्रपलायिनीम् ।
युक्त्या व्याडीन्द्रदत्ताभ्यां हृता श्रीनन्दभूभृतः ॥ ४६॥

शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् ।
कार्तवीर्यः ससंरम्भं बबन्ध दशकंधरम्घ ॥ ४७ ॥

वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे ।
ऋष्यशृङ्गोऽपि निःसङ्गः शृङ्गारी वेश्यया कृतः ॥ ४८ ॥

अल्पमप्यवमन्येत न शत्रुं बलदर्पितः
रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥ ४९ ॥

जगद्वैरी जरासंधः पाण्डवेन द्विधा कृतः ॥ ५० ॥

औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।
व्याजवालिवधेनैव रामकीर्तिः कलङ्किता ॥ ५१ ॥

वर्जयेदिन्द्रियजयी विजने जननीमपि ।
पुत्रीकृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ ५२ ॥

न तीव्रतपसां कुर्याद्धैर्यविप्लवचापलम् ।
नेत्राग्निशलभीभावं भवोऽनैषीन्मनोभवम् ॥ ५३ ॥

न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे ।
रुक्मी फलकदुर्घाते ते हलभृता हतः ॥ ५४॥


इन्द्रद्युम्नो नाम राजा. तत्कथा महाभारते वनपर्वणि नवनवत्युत्तरशततमेऽध्याये द्रष्टव्या. २. इयं व्याडीन्द्रदत्तयोः कथा कथासरित्सागरे चतुर्थतरङ्गे द्रष्टव्या स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् । बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ इति वाल्मीकीयरामायण उत्तरकाण्डे द्वात्रिंशे सर्गे, ४. ऋष्यशृङ्गकथा वाल्मीकीयरामायणे बालकाण्डे दशमसर्गे , महाभारते च वनपर्वणि दशोत्तरशततमेऽध्याये द्रष्टव्या. ५. रामेण दशरथसुतेन. रामः परशुरामः. ६. 'करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः' इति महाभारते सभापर्वणि चतुर्विंशेऽध्याये. ७. स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः । तं सा मायावती कान्तं कामयामास कामिनी ॥' इति हरिवंशे द्वितीयपर्वणि चतुरुत्तर- शततमेऽध्याये. ८. विवादे कुपितो रामः क्षेप्तार किल रुक्मिणम् । जघानाष्टापदेनैव प्रमथ्य यदुनन्दनः ॥' इति हरिवंशे द्वितीयपर्वण्येकषष्टिमितेऽध्याये. 9.