पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ २४ ॥

अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् ।
हत्वोपकारिणं विप्रो नाडीजङ्घमघश्च्युतः ॥ २५ ॥

स्त्रीजितो न भवेद्धीमानगाढरागवशीकृतः ।
पुत्रशोकादशरथो जीवं जायाजितोऽत्यजत् ॥ २६ ॥

न स्वयं संस्तुतिपदैर्ग्लानिं गुणगणं नयेत् ।
स्वगुणस्तुतिवादेन ययातिरपतद्दिवः ॥ २७ ॥

त्यजेन्मृगव्यव्यसनं हिंसयातिमलीमसम् ।
मृगयारसिकः पाण्डुः शापेन तनुमत्यजत् ॥ २८ ॥

क्षिपेद्वाक्यशरांस्तीक्ष्णान्न पारुष्यव्युपप्लुतान् ।
वाक्पारुष्यरुषा चक्रे भीमः कुरुकुलक्षयम् ॥ २९ ॥

परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।
पैशुन्येन गतौ राहोश्चन्द्रार्को भक्षणीयताम् ॥ ३० ॥

कुर्यान्नीचनाभ्यस्तां न याच्या मानहारिणीम् ।
बलियाच्ञापरः प्राप लाघवं पुरुषोत्तमः ॥ ३१ ॥

न जातूल्लङ्घनं कुर्यात्सतां मर्मविदारणम् ।
चिच्छेद वदनं शंभुर्ब्रह्मणो वेदवादिनः ॥ ३२ ॥

न बन्धुसंबन्धिजनं दूषयेन्नापि वर्जयेत् ।
दक्षयज्ञक्षयायाभूत्रिनेत्रस्य विमानना ॥ ३३ ॥

न विवादमदान्धः स्यान्न परेषाममर्षणः ।
वाक्पारुष्याच्छिरश्छिन्नं शिशुपालस्य शौरिणा ॥ ३४ ॥

गुणस्तवेन कुर्वीत महतां मानवर्धनम् ।


१. विप्रो गौतमः. नाडीजङ्गं नाम बकम्. एतत्कथा महाभारते शान्तिपर्वण्यापद्धर्मे- ऽष्टषष्ट्यधिकशततमाध्यायमारभ्यापद्धर्मसमाप्तिपर्यन्तं द्रष्टव्या. २. इयं ययातिकथा महा- भारत आदिपर्वण्यष्टाशीतिमितेऽध्याये द्रष्टव्या. ३. 'ततो वैरविनिर्बन्धः कृतो राहु- मुखेन वै । शाश्वतश्चन्द्रसूयाभ्यां असत्यद्यापि चैव तौ ॥' इति महाभारत आदिपर्व- ण्येकोनविंशतितमेऽध्याये.