पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मातरं पितरं भक्त्या तोषयेन्न प्रकोपयेत् ।
मातृशापेन नागानां सर्पसत्रेऽभवत्क्षयः ॥ १६ ॥

जराग्रहणतुष्टेन निजयौवनदः सुतः ।
कृतः कनीयान्प्रणतश्चक्रवर्ती ययातिना ॥ १७ ॥ (युग्मम्)

दानं सत्त्वमितं दद्यान्न पश्चातापदूषितम् ।
बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ १८ ॥

त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् ।
कर्णः कुण्डलदानेऽभूत्कलुषः शक्तियाच्ञ्चया ॥ १९ ॥

ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।
तक्षकाग्नौ ब्रह्मशापात्परीक्षिदगमत्क्षयम् ॥ २० ॥

दम्भारम्भोद्धतं धर्म नाचरेदन्तनिष्फलम् ।
ब्राह्मण्यदम्भलब्धास्त्र विद्या कर्णस्य निष्फला ॥ २१ ॥

नासेव्यसेवया दध्यादेवाधीने धने वियम् ।
भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात् ॥ २२ ॥

परप्राणपरित्राणपरः कारुण्यवान्भवेत् ।
मांसं कपोतरक्षायै स्वं श्येनाय ददौ शिवि ॥ २३ ॥

अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् ।


१. 'नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान् । सर्पसत्रे वर्तमाने पावको वः अधक्ष्यति ॥' इति महाभारत आदिपर्वणि विशेऽध्याये. २. 'गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् । जरयाहं प्रतिच्छन्नश्चरिष्यामि यथात्थ माम् ॥ ययातिरुवाच- पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥ इति महाभारत आदिपर्वणि चतुरशीतितमेऽध्याये. ३. 'वर्मणा कुण्ड- लाभ्यां च शक्तिं मे देहि वासव । अमोघां शत्रुसंघानां नाशिनी पृतनामुखे ॥ इति महाभारते वनपर्वणि दशाधिकत्रिशततमेऽध्याये. ४. 'यस्मान्मिथ्योपचरितो ह्यनलोभादिह खया । तस्मादेतन ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥' इति महाभा- रते शान्तिपर्वणि राजधर्मे तृतीयेऽध्याये कर्ण प्रति परशुरामस्य शापः. ५. 'उत्कृत्य स स्वयं मांस राजा परमधर्मवित् । तुलयामास कौन्तेय कपोतेन समं विभो ॥' इति महाभारते वनपर्वण्यकत्रिंशदधिकशततमेऽध्याये.