पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ७ ॥

जपहोमार्चनं कुर्यात्सुधौतचरणः शुचिः ।
पादशौचविहीनं हि प्रविवेश नलं कलिः ॥ ८॥

न संचरणशीलः स्यान्निशि निःशङ्कमानसः ।
माण्डव्यः शूललीनोऽभूदचौरश्चौरशङ्कया ॥ ९ ॥

न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् ।
हतो दशास्यः सीतार्थे हतः पत्न्या विदूरथः ॥ १० ॥

न मद्यव्यसनी क्षीबः कुर्याद्वेतालचेष्टितम् ।
वृष्णयो हि ययुः क्षीबास्तृणप्रहरणाः क्षयम् ॥ ११॥

ईर्ष्या कलहमूलं स्यात्क्षमा मूलं हि संपदाम् ।
ईर्ष्णदोषाद्विप्रशापमवाप जनमेजयः ।। १२ ॥

न त्यजेद्धर्ममर्यादामपि क्लेशदशां श्रितः ।
हरिश्चन्द्रो हि धर्मार्थी सेहे चण्डालदासताम् ॥ १३ ॥

सत्यव्रतभङ्गेन कार्य धीमान्प्रसाधयेत् ।
ददर्श नरकक्लेशं सत्यनाशायुधिष्ठिरः ॥ १४ ॥

कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः ।
प्राप राघवसंगत्या प्राज्यं राज्यं विभीषणः ॥ १५ ॥


१. श्वेतो नाम राजा. तत्कथावाल्मीकीयरामायण उत्तरकाण्डेऽष्टसप्ततितमे सर्गे द्रष्टव्या.. २. 'कृत्वा मूत्रमुपस्पृश्य संध्यामन्वस्त नैषधः । अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥' इति महाभारते वनपर्वण्येकोनषष्टितमेऽध्याये. ३. 'स रक्षिमिस्तैर- ज्ञातः शुले प्रोतो महातपाः' इत्यादि महाभारत आदिपर्वणि १०७ अध्याये माण्डव्यकथा द्रष्टव्या. ४. 'शस्त्रेण वेणीविनिगृहितेन विदूरथं वा महिषी जघान' इति बृहत्संहिता ( ७८.१)। 'वेणीनिगूढेन च शस्त्रेण विन्दुमती वृष्णि विन्दूरथं [जघान]' इति हर्षचरित- षष्ठोच्छ्वासः. ५. वृष्णयो यादवाः. एतत्कथा महाभारते मौसलपर्वणि प्रसिद्धैव. 'जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः । गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः। वाकशूरं हिंसयामास ब्रह्महत्यामवाप सः ॥' इति हरिवंशे प्रथमपर्वणि त्रिंशेऽध्याये. ७.व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति । व्याजेनैव ततो राजन्दर्शितो नरक- स्तव ॥ इति महाभारते खर्गारोहणपर्वणि तृतीयेऽध्याये. द्वि० गु० न