पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

त्वरितेन तरक्षुदर्शनान्निजशावोऽपि मनाङ् न वीक्षितः ।
अधुना हरिणीषु हन्त ते वलते कोऽपि कुरङ्ग विक्रमः ॥ १२४ ॥

कुरु कुञ्चितचिल्लि पामराणां न समाजे सरसानि कौशलानि ।
स्फुटदर्शनमत्र दृग्विलासो न तु वैदग्ध्यमतिस्फुटैव वाणी ॥ १२५ ॥

सूर्याचन्द्रमसौ घनैरतिघनैरेतौ विलुप्तद्युती
स्वच्छन्दं मलिनाः परं जलमुचो वर्षन्ति गर्जन्ति च ।
तुल्या एव सरित्समुद्रसरसीकुल्या बभूवुः क्षणा-
त्कालः क्रीडति कौतुकं विरचयन्कस्मै किमाचक्ष्महे ॥ १२६ ॥

अतुलरूपगुणोचितयोगयोः कमलिनीशशिनोरसमागमात् ।
अपयशो विधिना निजमर्जितं विनिहिता च जनस्य हृदि व्यथा ॥१२७॥

परेषु लोकेषु विचिन्त्य याचनां परोऽपि को नाम न यातु नम्रताम् ।
त्रिलोकनाथोऽपि यया दुरन्तया हठादयं वामनतामनीयत ॥ १२८ ॥

लभते लघुरप्येष सपक्षो लक्षमाशुगः ।
पक्षहीनतया हन्त न धनुर्गुणवानपि ॥ १२९ ॥

मणिरयमनुष्ण इति ते मनसीलायामुदेतु नाश्वासः ।
अचिरेण तरणिकिरणव्यतिकरमात्रेण दुन्दहीत्येषः ॥ १३० ॥

घनपांसुविधूसरांशुराशि मणे तापयसे मुधावधान ।
अधिचत्वरवीथि पामरीणाममरीदुर्लभ कस्तव प्रकारः ॥ १३१ ॥

दीर्णोऽसि चेत्कनकसूत्रनिवेशनाय
मुक्ताकलाप किमतो भवतो विषादः ।
यत्पञ्चबाणजयमङ्गलहेमकुम्भे
कुम्भस्तनीस्तनतटे भवितानुषङ्गः ॥ १३२ ॥

येनाकारि महीभृतामविरतं कण्ठेषु लीलायितं
येन प्रापि सरोजसुन्दरदृशां तुङ्गस्तनालिङ्गनम् ।
जातं येन गजेन्द्रगण्डयुगले साधारणं गुञ्जया
मुक्तादाम तदेव पामरपुरे नावाप कां कां दशाम् ॥ १३३ ॥

१. कुञ्चितच यथा स्यात. चिल्लीशब्दो भ्रूवाचकः.