पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सवः ।
सेयमिन्दुकलिका दिनागमे तापिता कमिव नातितापयेत् ॥ १०० ॥

उत्साहं वनितासखेषु विरहग्लानेषु दैन्यं शशी
शोकं कोककुटुम्बिनीषु दिशति क्षेमं चकोरीषु च ।
लक्ष्मी लुम्पति पङ्कजस्य कुमुदामोदाय संपद्यते
तद्बीजं ध्रुवमत्र पूर्वविहितं द्वेषस्य रागस्य च ॥ १०१ ॥

धुनोति ध्वान्तानि व्यपनयति नीहारपटलं
कुलं राजीवानां दलयति रथाङ्गं रमयति ।
जगद्व्यापी देवो जनयति जनानां च नयनं
न याति स्थेमानं यदि तदिह दैवं जयतु कः ॥ १०२ ॥

अरविन्दानि विन्दन्ति व्यथा विरहतो रवः ।
तेषां विरहतस्तस्य न जाने कीदृगन्तरम् ॥ १०३ ॥

येन शैशवपदे मदेभराङ्गण्डसीम नखरैर्विखण्डितम् ।
यौवनोत्सवमवाप्य केसरी केषु दर्शयतु सोऽद्य पौरुषम् ॥ १०४ ॥

भूमिपालभवने स केसरी पअरे स्फुरति रुद्धपौरुषः ।
उन्मिपत्सु करटेषु कुम्भिनां कः करोति करजार्पणोत्सवम् ॥ १०५ ॥

एतस्य केसरिपतगिरिकाननानि
तानि स्मरन्ति परमस्य पराक्रमस्य ।
अद्यातिदुर्वहजरा विकलस्य को नु
प्रत्येतु तानि चरितानि चिरंतनानि ॥ १०६ ॥

मग्नं मत्तैः सरसि करिभिर्विद्रुतं द्वीपिमुख्यै-
र्लीनं कुञ्जे शबरपतिभिर्मूर्छितं रङ्कयूथैः ।
आकार्ण्योच्चैरिह मृगपतेर्जुम्भमाणस्य नादा-
न्कैः कैः किं किं न खलु चकितैः काननेऽस्मिन्नकारि ॥ १०७ ॥

स्वैरं सैरिभयूथपैरिह सरः शृङ्गेण विक्षोभितं
तावन्यङ्कुकुलं च हुंकृतितर्विद्द्रावितं द्वीपिभिः ।