पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

यत्तादृशेषु नलिनेषु न पक्षपातो
जातो बत स्फुटमसौ कुटजानुरागः ।
विश्वैकजीवनपटोरपि वारिवाह
दुर्वारवायुवशगस्य न तद्विचित्रम् ॥ ८४ ॥

नैवामी प्रभवन्ति चातकतृषाविच्छेदसंपत्तये
प्रागल्भ्यं दधते न हन्त हरितां संतापशान्तावपि ।
प्रक्षामास्तरणित्विषोऽपि न तिरोधातुं समर्थाः पुनः
क्षुद्राः पिच्छिलयन्ति केवलमपां लेशैः पथस्तोयदाः ॥ ८५ ॥

उद्दामामणिमयूखमूच्छितानामेतेषामहह महीरुहामिह स्यात् ।
आलम्बः क इव दिवं भुवं पयोभिः सिञ्चन्तं जगति विहाय वारिवाहम् ॥ ८६ ॥

संतापं जगतो विलुम्पसि धरां धाराभिरासिञ्चसि
क्षेत्राण्यङ्कुरयस्यमून्मुकुलयस्यबाय नीपद्रुमान् ।
सारङ्गस्य नभोनिवेशितदृशश्चञ्चूपुटीपूरणे
वैमुख्यं व्रजसि त्वमम्बुद यदि प्रत्येतु को नाम तत् ॥ ८७ ॥

तानि तानि कमलानि तज्जलं तानि षट्पदकुलानि ते खगाः।
सर्वमेकपद एव विच्युतं पङ्कशेषमचिरादभूत्सरः ॥ ८८ ॥

नावों न च तरलास्तरङ्गमाला नेदानी जलरयजा रवाः करालाः ।
सैव त्वं तटिनिद्रुमान्निपात्य प्रौढानामपयशसामिहासि पात्रम् ॥ ८९ ॥

वापी कापि कदापि न श्रुतिचरी को वेद कीदृक्सरो
व्योमाम्भोजवनीव नात्र तटिनी कैर्नाम न ज्ञायते ।
हंहो पान्थ दुरन्तसाहसभरेणेहागतं चेन्मरौ
मण्डूकाकुलपङ्कसंकुलतलादन्धोः कबन्धं पिब ॥९० ॥

मूलं कूलमहीरुजां विरुजति क्लिश्नाति तुङ्गास्तटी-
विश्लेषं च रथाङ्गयोर्वितनुते राजीविनीः कर्षति ।
श्यामाः शैवलवल्लरीवितुदते मनाति वीचीः क्षणा-
त्किं तद्यन्न करोति मारुतवशादम्भोधरः प्रावृषि ॥ ९१ ॥

१. कूपाजलं पिब.