पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

चञ्चरीक चतुरोऽसि चन्द्रिकावैमवे कुमुदिनी निषेवसे ।
भास्करे जयति पुष्करे करैरुन्मिषन्नवदलेऽनुरज्यसि ॥ ५२ ॥

इतो वसन्तहेमन्तद्वैराज्यादिव दुर्मनाः ।
न कुन्दे नापि माकन्दे पदं बध्नाति षट्पदः ॥ ५३ ॥

मा गाः खेदं कमल किरणैरेष पीयूषगर्भः
प्रालेयांशुर्यदिह कुमुदामोदमाविष्करोति ।
नानुग्राह्यं यदसि महतामीदृशानामयं ते
मन्ये कालादिह परिणतः प्राक्तनो दुर्विपाकः ॥ ५४ ॥

यावत्त्वां न खलु हसन्ति कैरविण्यो यावत्वां तरणिकराः परामृशन्ति ।
यावत्ते मधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज षट्पदेभ्यः ॥ ५५ ॥

रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृतः खयमेव शंकरेण ।
कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिन्दुमुदीक्ष्य लोककान्तम् ।। ५६ ॥

नलिनि निपुणतां वदामि किं ते भ्रमरविलासविशेषलालसायाः ।
त्रिभुवननयनोत्सवं यदिन्दं न नयसि हन्त दृगन्तवम॑सीमाम् ॥ ५७ ॥

न कुले नापि च शीले न चापि रूपेऽस्ति कश्चिदुत्कर्षः ।
यत्पुष्णासि मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ ५८ ॥

वैदग्ध्यं मृगलाञ्छनस्य मनसो निर्माति मे न व्यथां
नो दुये चिरलालिता मधुलिहः सर्पन्ति यन्नान्तिकम् ।
जल्पन्तीव दुरक्षराणि मधुपश्रेणीध्वनिच्छद्मना
यत्कादम्ब कुमुदती हसति मां तन्मे मनस्ताम्यति ॥ ५९॥

मरन्दलोभान्न मिलिन्दमाला भेजे न बाला श्रवणे निनाय |
हा हन्त नालीकमिदं दुरन्तपालेयपाली कवलीचकार ।। ६० ॥

एकस्मिञ्जनिरावयोः समजनि खच्छे सरोवारिणि
भ्रातः किं च सहैव कानिचिदहान्यत्र व्यतीतानि नौ ।
लब्धं तामरस त्वया मृगदृशां कर्णावतंसास्पदं
शेवालं विलुठामि पामरवधूपादाहते पाथसि ॥ ६१ ॥