पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

त्वं तत्र नो विहरसे यदि भृङ्ग तेन
नैतस्य किंचिदपि तत्तु तवैव हानिः ॥ ४३ ॥

गलितानि मधूनि सर्वतो विनिकीर्णानि दलानि मारुतैः ।
अधुनापि न हन्त माधवीं मधुपैनामिह नाम मुञ्चसि ॥ ४४ ॥

उपानीतं दूरात्परिमलमुपाघ्राय मरुता
समायासीदस्मिन्मधुरमधुलोभान्मधुकरः ।
परो दूरे लाभः कुपितफणिनश्चन्दनतरोः
पुनर्जीवन्यायाद्यदि तदिह लाभोऽयमतुलः ॥ १५॥

भ्रातर्भ्राम्य लवङ्गवल्लिषु पिब स्वैरं नवाम्भोरुहे
माध्वी माधविकामधूनि मधुराण्याकण्ठमाखादय ।
कस्मादापतितोऽसि केतकमिदं यस्मिन्नुदीर्ण रजो
दृष्टिं लुम्पति सूचयः प्रवितताः कृन्तन्ति मर्माण्यपि ॥ ४६॥

सहसा समये समीयुषो रुचितामङ्गविशेषशून्ययोः ।
इह षट्पदपङ्कजन्मनो मनोग्लानिरसावुपैष्यति ॥४७॥

नालिङ्गिता नवलवङ्गलता न चापि
संभाविता विटपिनः कलगुञ्जितेन ।
आसादिता सपदि काचन रीतिरन्या
माकन्दकोरकमुदीक्ष्य मधुव्रतेन ॥ १८॥

किं न पश्यसि महेन्द्रदिखे शीतदीधितिरसावुदश्चति ।
मीलितैव नलिनीह मा कृथास्तन्मधुव्रत मुधा गतागतम् ॥ १९॥

कुन्दकुमलमुपास्यतां त्वया यत्र शीतसमयोऽतिवाहितः ।
चञ्चरीक परिहीणसौरभा रोचते न भवते सरोजिनी ॥ ५० ॥

अये मधुप मा कृथा बत वृथा मनोदीनतां
तुषारसमये लताशतनिषेवणव्याकुलः ।
इयं पुरत एव ते सरसंपुष्पमासोदये
रसालनवमञ्जरीमधुझरी जरीजृम्भते ॥ ५१ ॥


११ द्वि.गु.