पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना- दाश्थ्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता । भूमिष्ठो यस्तस्थान्यो भुवनगृह बृहत्स्तम्भशोभां दधानः पातामेतौ पयोजोदरदलिततलौ पङ्कजाक्षस्य पादौ ॥ १२ ॥ यस्मात्पादादाश्योतन्त्यापतन्ती सुरसरिद्गङ्गा । अमला निर्मलोदका कान्ता मनोहरा वैजयन्ती पताकेव बभासे । किंलक्षणात् । यामाकामतः । अण्डकपालस्फुटनपर्यन्तं दीर्घकृतादित्यर्थः । गरुडमणिर्मरकतमणिस्तन्मयी या शिला तद्रूपो यः केतुदण्डः पता- काश्रयभूता यष्टिस्तद्वदाचरतीति तस्मात् । एवं वामपादं वर्णयित्वा दक्षिणं वर्णयति- तथान्यो दक्षिणः पादो भूमिष्ठः । भुवनं त्रैलोक्यं तदेव गृहं तस्मिन्बृहन्महान्यः स्तम्भ- स्तस्य शोभां दधानः । त्रैलोक्यभवनोत्तम्भनस्तम्भ इव स्थित इत्यर्थः । यावेवंविधौ पङ्कजाक्षस्य हरेः पादौ तावेतौ पातां पालयेताम् । अस्मानिति शेषः । पयोज कमलं तस्योदरं मध्यं तद्दलितं पराभूतं याभ्यां तादृशे तले ययोस्ती । पयोजोदरादपि सुकुमा- रतलावित्यर्थः॥ आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम । ताभ्यां ताम्रोदराभ्यां मुहुरमजितस्याञ्चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपकेरुहाभ्याम् ॥ १३ ॥ तत्क्षणादेव यस्मिन्क्षणे बलिदैत्यदत्तोदकं हस्ते पतितं तदैव त्रिलोकीमाक्रामद्भयां याभ्यामसुरसुरपती वैरोचनीन्द्रौ बलिशको युगपत्समकालमेव क्रमेण विपत्संपदोरैश्वर्य- भ्रंशतत्संपत्त्योरेकलधाम मुख्य स्थानं नीतौ प्रापितौ । विरोचनापत्यं बलिविपद्धामत्वम् , इन्द्रश्च संपद्धामलं नीत इत्यर्थः । अपिशब्दो विरोधद्योतकः । एकस्यामाक्रमणक्रियायां विरुद्धोभयकार्ययोगो विरोधः । याभ्यामेवं कृतं ताभ्यामुभाभ्यामजितस्य विष्णोः पाद- पड़ेहाभ्यामहं मुहुः शश्वत्प्रणति नम्रतामुपगतः । तानेत्यादीनि पादविशेषणानि । ताने आरके उदरे अधस्तले ययोः । अश्चिताभ्यां पूजिताभ्याम् । ब्रह्मादिभिरिति शेषः । प्राज्यमधिकमैश्वर्यं भवेभ्यः प्रददत इति ताभ्याम् ॥ येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् । व्याप्ता विश्वभरा यैरतिवितततनोविश्वमूर्विराजो विष्णोस्तेभ्यो महद्भयः सततमपि नमोऽस्त्वविपकेरुहेभ्यः ॥ १४॥ विश्वमूर्तेर्विराजो विराट्ररूपस्य विष्णोस्तेभ्योऽप्यजिपकेरुहेभ्यः सततं सर्वदा नमोऽस्तु ।