पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् ।
त्रिलोकीलावण्याहरणनबलीलानिपुणयो-
र्ययोदत्ते भूयः करमखिलनाथो मधुरिपुः ॥ २१ ॥

हरक्रोधनस्यन्मदननवदुर्गद्वयतुला
दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम् ।
तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले
मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥ २२ ॥

अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते
दयापीयूषाम्भोनिधिसहजसंवासभवने ।
विधोश्चित्तायामे हृदयकमले ते तु कमले
मनाङ् मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥

मृणालीनां लीलाः सहजलवणिम्ना लघयतां
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः।
लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः
श्रुतीनां स्पर्धा ये दधत इव कण्ठे मधुरिपोः ॥ २४ ॥

अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधी
गुणोत्कर्षाघानं प्रथितमुपमानं समजनि ॥ २५ ॥

अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुला
रसज्ञामज्ञानां क इव कमले मन्थरयतु ।
त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां
कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥ २६ ॥

समाहारः श्रीणां विरचितविहारो हरिदृशां
परीहारो भक्तप्रभवभवसंतापसरणेः ।