पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अस्मिन्नेते शिखरिणि मया यादवेशान्तिकान्ते
जीमूताम्भःकणचयमुषः संचरन्तः पुरस्तात् ।
संसेव्यन्ते विषमविशिखोत्तंसया नीपवाताः
पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११५ ॥

संचिन्त्यैवं हृदि मयि दयां धारयंस्तत्प्रसीद
स्वामिन्निर्वापय वपुरिदं स्वाङ्गसङ्गामृतेन ।
यत्संताप्यानिशमतितरां प्राणलावण्यशेष
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११६ ॥

दुःखं येनानवधि बुभुजे त्वद्वियोगादिदानीं
संयोगात्तेऽनुभवतु सुखं तद्वपुर्मे चिराय ।
यस्माजन्मान्तरविरचितैः कर्मभिः प्राणभाजां
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ११७ ॥

प्रावृट् प्रान्तं प्रियतम गता दुर्दशा दुःखदेव
प्रायोऽन्योन्यैः रतिकरमितः सांप्रतं संगमाय ।
भोगानेकोत्सवसुखसुखानिच्छया मन्दिरे खे
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११८ ॥

इत्येतस्याः सफलय चिराद्वाक्यमासाद्य सद्यः
खं वेश्मैनां नय नवरसैः खस्थचित्तां कुरुष्व ।
तल्पे प्राक्त्वां निशि वदति या स्मेक्षमाणेव मोहा-
हृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ११९ ॥

त्वत्संयोगाकुलितहृदयोत्कण्ठया राजपुत्री
त्वामेषा च त्वरयति चिरात्स्नेहपूर्णा प्रयातु ।
प्रायेणैताः प्रियजनमनोवृत्तयोऽप्राप्तिभावा-
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १२० ॥

तस्माद्बालां स्मरशरचयैर्दुःसहैर्जर्जराङ्गीं
संभाष्यैनां नय निजगृहान्सत्वरं यादवेन्द्र ।