पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
काव्यमाला ।

तामेवैषा वहति शिरसा खे निधाय प्रदेशे
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ ९५ ॥

गीताद्यैर्वा श्रुतमुखकरैः प्रस्तुतैर्वा विनोदैः
पौराणीभिः कृतनुतिमिमां त्वद्वियोगात्कथाभिः ।
तुष्टिं नेतुं रजनिषु पुनर्नालिवर्गः क्षमोऽभू-
त्तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ९६ ॥

या प्रागस्याः क्षणमिव नवर्गीतवार्ताविनोदै-
रासीच्छय्यातलविगलितैर्गल्लभागैर्विलङ्घ्य ।
रात्रिं संवत्सरशतसमां वीक्षते सन्नगात्री
तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ ९७ ॥

पश्यन्ती त्वन्मयमिव जगन्मोहनावासमग्नं
ध्यायन्ती त्वां मनसि निहितं तत्क्षणं तद्विरामे ।
मूर्तिं भित्तायपि च लिखितामीक्षितुं ते पुरस्ता-
दाकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशम् ॥ ९८ ॥

अन्तर्भिन्ना मनसिजशरैर्मीलिताक्षी मुहूर्तं
लब्ध्वा संज्ञां दिशि दिशि मुहुर्वीक्ष्यमाणार्तिदीना ।
शय्योत्सङ्गे नवकिसलयाग्रेऽपि भद्रं न लेभे
साभ्रेऽह्नीव स्थलकमलिनी न प्रबुद्धा न सुप्ता ॥ ९९ ॥

वृत्तान्तेऽस्मिंस्तदनु कथिते मातुरस्यास्तयैत-
द्वृत्तं ज्ञातं निशि सह मया प्रेषितः सौविदल्लः ।
सख्याः पश्यन्नयमपि दशां तां तदावेक्ष्य जातं
प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ १०० ॥

प्रेक्ष्यैतस्मिन्नपि मृगदृशस्तामवस्थामसह्या-
मस्याः प्रातः कथयति पुरा विस्तरात्सैतदम्बा ।
श्रुत्वा दुःखं दुहितुरसृजद्बाष्पमच्छिन्नधारं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ १०१ ॥