पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
काव्यमाला ।

यत्राशोकः कलयति नवस्तोरणाभां तथान्यो
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ८२ ॥

उद्यद्वालव्यजनमनिलोल्लासिकाशप्रसूनाः
श्वेतच्छत्त्रं विकसितसिताम्भोजभाजो विलोक्य ।
तत्यां पौरा विशदयशसं न श्रियः शारदीना
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ८३ ॥

पुष्पाकीर्णं पुरि सह तदा यस्त्वया राजमार्गं
यास्यत्युद्यद्ध्वनिजवसनं चन्दनाम्भश्छटाङ्कम् ।
शौरिं पीताम्बरधरमनुक्ष्माधरं मेघमेनं
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८४ ॥

यातं तस्याः पुरि पुरि बलादुत्सवैः कामिनोत्कं
हर्षोत्कर्षं नरपतिपथेनैष्यतस्तौ ययोस्तु ।
स्त्रीणामेको रमयति शतान्यङ्गनां पाययित्वा
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्म्मनास्याः ॥ ८५ ॥

सौधश्रेणीर्विततविलसत्तोरणास्ता व्यतीत्य
स्वावासं तं मणिचयरुचा भासुरं प्राप्स्यसि त्वम् ।
यस्मिन्कस्मै न भवति मुदे साग्रभूमिर्घनानां
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ ८६ ॥

नत्वा पूर्वं पितृमुखगुरूंस्तान्विसृज्याथ बन्धू-
न्सौधं मञ्चद्वयमपि ततोऽलं कुरुष्वार्द्रचित्तः ।
यन्निःश्रीकं हरति न मनस्त्वां विना यादवेन्दो
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ८७ ॥

इत्युक्तेऽस्या वदसि विमुखं मुक्तिकान्तानुरक्तं
दृष्ट्वा नेमिं किल जलधरः संनिधौ भूधरस्थः ।
तत्कारुण्यादिव जलधरश्रेणिमुक्ताश्रु धत्ते
खद्योतालीविलसितनिभां विद्यदुन्मेषदृष्टिम् ॥ ८८ ॥