पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

गायन्तीभिस्त्वदमलयशो वारसीमन्तिनीभिः
साकं माद्यन्मधुरमुरजं तारसारान्यपुष्टम् ।
यस्यां रम्यं सुरभिसमये सोत्सवाः सीरिमुख्या
बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७६ ॥

उद्यत्कामालसयुवतिभिः सेव्यमानैः सरोज-
स्कन्धान्यस्यां सुमधुररसानक्षयानापिबद्भिः ।
निर्गम्यन्ते शरदि यदुभिः सद्मपृष्ठे स्वकीर्त्या
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ७७ ॥

कान्तोत्तंसास्तुहिनसमये कुङ्कुमालिप्तदेहाः
सान्द्रच्छाये शुचिनि तरुभिर्गोमतीरम्यतीरे ।
रूपोल्लासाद्विजितरतयः कुन्दकाले सलीलं
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७८ ॥

यस्यां पुष्पोपचयममलं भूषणं साधुहृद्यं
गन्धद्रव्यं व्यजननिवहं सूक्ष्ममिच्छानुकूलम् ।
न्यस्तः प्रीत्या त्रिदशपतिना वासुदेवस्य सद्म-
न्येकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७९ ॥

एणाङ्काश्मावनिषु शिशिरैः कुङ्कुमार्द्रैः पदाङ्कैः
शीतोत्कम्पाद्गतिविगलितैर्बालकैः केशपाशात् ।
भ्रष्टैः पीनस्तनपरिलसद्रम्यमाल्यैश्च यस्यां
नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ८० ॥

बाणस्याजौ हरविजयिनो वासुदेवस्य यस्यां
प्राप्यासत्तिं चरति गतभीः पुष्पचापो निरस्तः ।
यस्माद्द्वेधाकृतयुवमनोमोहमात्मप्रकर्षै-
स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८१ ॥

यायास्तस्माद्रथपरिवृतस्त्वं प्रवेशाय यस्यां
तत्प्राचीनं पुरि हरिमुखैर्गोपुरं यादवेन्द्रैः ।