पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
काव्यमाला ।

नानादैत्यप्रहरणभवैः संगरेषु स्वकीर्त्या
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ ६९ ॥

व्याधिर्देहान्स्पृशति न भयाद्रक्षितुः शार्ङ्गपाणे-
र्मत्योर्वार्ता श्रवणपथगा कुत्र यद्वासमाजाम् ।
कामक्रीडारससुखजुषां यच्छतामर्थिकामा-
न्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ७० ॥

कर्णे जातिप्रसवममलं केतकं केशपाशे
कस्तूरीभिः कृतविरचना गण्डयोः पत्रवली ।
कण्ठे माला ग्रथितकुटजा मण्डनं भावि काम्यं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१ ॥

यस्यां रम्यं युवजनमनोहारि वाराङ्गनानां
लास्यं तालानुगतकरणं भास्वति त्वत्प्रवेशे ।
वाञ्छन्तीनां तदवगमनादङ्गभाजां प्रसादं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ७२ ॥

संसक्तानां नवरतरसे कामिभिः कुण्ठ्यमानाः
पृष्ठेऽष्वन्तः कृतविरचनाधर्मवार्यङ्गनानाम् ।
यस्यां ग्रीष्मे शिशिरकिरणस्यांशुभिर्यामिनीषु
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७३ ॥

गत्वा पूर्वं रजनिसमये धूप्यमानेषु लीला-
वेश्मस्वन्तर्युवतिनिहितै रत्नदीपैर्निरस्ताः ।
जालैर्यत्रान्धतमसचयाः साध्यसेनेव भूयो
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ७४ ॥

रात्रौ यस्यामुपसखि भृशं गात्रसंकोचभाजां
रागेणान्धैः शयनभवनेषूल्लसद्दीपवत्सु ।
प्रेम्णा कान्तैरभिकुचयुगं हृद्यगन्धिर्वधूनां
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ७५ ॥